________________
५८ ]
सिद्धान्तकौमुदी।
भ्वादि कृषस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते । २२४० आम्प्रत्ययवत्कृतोऽनुप्रयोगस्य । (१-३-६३) प्राम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । भेदेनान्वय इत्यन्तेन । सामान्यविशेषयोरभेदान्वयस्य न्याय्यत्वादिति भावः । कृज इव भ्वस्त्योरपि क्रियासामान्यवाचित्वाद् धातूनामनेकार्थत्वादिति ज्ञेयम् । ननु 'कृभ्वस्तियोगे-' इत्यस्य 'कृो द्वितीय-' इत्यस्य च सूत्रस्य मध्ये 'अभिविधौ संपदाच' इति पठितम् । एवं च कृप्रत्याहारे संपदोऽपि कुतो न ग्रहणमित्यत आह संपदिस्त्विति । अनन्वितार्थत्वादिति । सिद्धस्य वस्तुनो रूपान्तरापत्तिः सम्पदेरर्थः । एधादिधातोस्त्वाम्प्रकृतिभूतस्य वृद्धयादिरर्थः। तयोरुभयोरपि विशेषरूपत्वेन सामान्यविशेषभावाभावेन अभेदान्वयासंभवादित्यर्थः । अत एव 'कृभ्वस्तीनां ग्रहणम्' इति भाष्यं संगच्छत इति भावः । ननु 'अाम्प्रत्ययवत्-' इति कृत्र आत्मनेपदविधायकसूत्रं वक्ष्यमाणं व्यर्थम् । 'खरितत्रितः' इत्येव तत्सिद्धेरित्याशङ्कयाह कृास्त्विति । अाम्प्रत्ययवत्कृञः। 'अनुदात्तङितः' इत्यत आत्मनेपदमित्यनुवतिते । तत्राम्प्रत्ययस्यात्मनेपदाभावादाह आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहु. वीहिरिति । तस्य अन्यपदार्थस्य गुणा विशेषणानि वर्तिपदार्थरूपाणि तेषां संविज्ञानं क्रियान्वयितया ज्ञानं न विद्यते यस्य बहुव्रीहेः सः अतद्गुणसंविज्ञानः । यथा लिट्परः कृञ् इत्यर्थसमर्पकतया तस्योपक्षीणत्वात् । अभेदान्वय इति । सामान्यविशेषयोरभेदान्वयो लोकसिद्ध इति भावः । एवं च एधांचक्रे एधांबभूवे इत्यादौ एककर्तृकभूतानद्यतनपरोक्षा वृद्ध्यभिन्ना क्रियेति तुल्यो बोधः । ननु करोतिः सकर्मकः भवतिस्त्वकर्मक इति कथमिह तुल्यतेति चेत् । अत्राहुः-यदा हि करोतिरुत्पादनार्थकः खातन्येण प्रयुज्यते घटं चके राज्यं चकारेति तदा नियमेन सकर्मकत्वम् । यदा तु क्रियान्तरसमानाधिकरणः करोतिः प्रयुज्यते जुहवांचकारेत्यादौ तदा यत्समानाधिकरणः करोतिस्तस्य सकर्मकत्वाकर्मकत्वाभ्यां स्वयमपि तथाभावं भजते । एवं भ्वस्त्योरप्याम्प्रकृतिसामानाधिकरण्येन क्वचित्सकर्मकत्वं बोध्यम् । अतएवानु प्रयुज्यमानाद्भवतेः सकर्मकत्वाल्कर्मणि लिट् । तथा च माघः-'तस्यातपत्रं बिभरांबभूवे' इति, श्रीहर्षश्च 'तपर्तुपूर्तावपि मेदसां भर। विभावरीभिर्विभरांबभूविरे' इति । अत्रेदमवधेयम्जुहाव जुहवांचकार जुहवांबभूव इत्यादौ केवलो होमो गम्यते इतरत्र तु होमरूपा क्रियेति बोधः । फले तु न कश्चिद्विशेषः, घटमानय द्रव्यंघटमानयेत्यत्र यया । एवं चाम्प्रकृत्यर्थगतकारकसंख्यादिविशेषाभिव्यक्तिरनुप्रयोगस्य फलमिति । अनन्वि. तेति । संपद्यर्थस्याम्प्रकृत्यर्थस्य चाभेदान्वयो न संभवति, उभयोरपि विशेषरूपत्वा. दिति भावः। आम्प्रत्ययवत् । आम्प्रत्ययान्तस्यात्मनेपदाभावादाह अतद्गुण