________________
प्रकरणम् ४३ बालमनोरमा-तत्त्वबोधिनीसहिता। [५६ भाम्प्रकृत्या तुल्यमनुप्रयुज्यमानास्कृतोऽप्यात्मनेपदं स्यात् । इह पूर्ववद् इत्यनुवर्त्य वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् । २२४१ लिटस्तझयोरेशिरेच् । (३-४-८१) चित्रगुमानयेति । अत्र हि पुरुषस्यैवान्यपदार्थस्य क्रियान्वयः। न तु चित्राणां गवामपि । तथा च 'प्रकृते आम्प्रत्ययविनिर्मुक्त आम्प्रत्यय प्रकृतिभूत एधादिधातुरेव अाम्प्रत्ययशब्देन लभ्यत इति भावः । अाम्प्रत्ययवदिति तृतीयान्ताद्वतिः। अनुप्रयुज्यत इत्यनुप्रयोगः । कर्मणि घञ् । पञ्चम्यर्थे षष्ठी, तदाह प्रामप्रकृत्येत्यादिना। श्राम्प्रकृतभवितुं योग्यं यदात्मनेपदं तद् अनुप्रयुज्यमानात् कृलोऽपि स्यादिति यावत् । अत्र न प्रत्याहारग्रहणम् । 'अनुप्रयोगस्येत्येव सिद्धे कृञ्ङ्ग्रहणादिह न प्रत्याहारग्रहणम्' इति भाष्यम् । परामिन्यपि क्रियाफले कृञ्धातोरात्मनेपदार्थोऽयमारम्भः । इन्दांचकारेत्यादौ तु परगामिनि क्रियाफले नानेनात्मनेपदम् । अाम्प्रकृतेः 'इदि परमैश्वर्य' इति धातोरात्मनेपदाभावात् तस्य परस्मैपदित्वात् । एतदर्थमेव अाम्प्रत्ययवदित्युपात्तम्। नन्विन्दांचकारेत्यादौ मास्त्वनेन सूत्रेण परगामिनि क्रियाफले आत्मनेपदम् । आत्मगामिनि तु क्रियाफले 'स्वरितत्रितः-' इत्यात्मनेपदं दुरिम् । अस्य सूत्रस्य एधां. चक्र इत्यादौ परग मिनि क्रियाफले आत्मनेपदस्याप्राप्तस्य विधान एव समर्थतया आत्मगामिनि क्रियाफले 'स्वरितत्रित:-' इति प्राप्तस्यात्मनेपदस्य निवारणे. सामर्थ्या. भावादित्यत आह इहेति । इह 'अाम्प्रत्ययवत् कृमोऽनुप्रयोगस्य' इति सूत्रे 'पूर्ववत् सनः' इति पूर्वसूत्रात् पूर्ववदित्यनुवर्त्य अाम्प्रत्ययवत् कृतोऽनुप्रयोगस्येत्येकं वाक्यम् , पूर्ववत् कृमोऽनुप्रयोगस्येति अन्यद्वाक्यमिति वाक्यद्वयं संपाद्यम् । तत्र पूर्ववदिति तृतीयान्ताद्वतिः । पूर्वेण पूर्वप्रयुक्तेन एधादिधातुना तुल्यमित्यर्थः । तत्र वाक्यद्वयस्य समानार्थकत्वे वैयर्थ्याद् द्वितीयं वाक्यं नियमार्थ संपद्यते । पूर्ववदेव प्रात्मनेपदं न तु तद्विपरीतमिति । एवं च पूर्ववाक्येन एधांचक्रे इत्यादी कृत्रः परगामिन्यपि क्रियाफले आत्मनेपदविधिः, द्वितीयवाक्येन तु इन्दांचकारेत्यादौ कर्तृगामिनि क्रियाफले 'स्वरितमितः-' इत्यात्मनेपदस्य निवृत्तिः फलति, तदाह तेनेति । द्वितीयवाक्येनेत्यर्थः । न तडिति । न आत्मनेपदमित्यर्थः । एवं चानुप्रयुज्यमानात्कृो लिटस्तङि इति। अाम्प्रकृत्या तुल्यमनुप्रयुज्यमानादिति । तृतीयान्ताद्वतिः । अनुप्रयोगस्येत्यत्र कर्मणि घमिति भावः । 'अनुदात्तक्ति-' इत्यतोऽनुवर्तनादाह प्रात्मनेपदं स्यादिति । एवमप्राप्तस्य विधानेऽपि प्राप्तस्य निवारणमनेनैव सूत्रेण न संभवतीत्यत आह वाक्यभेदेनेति । अत्र च प्रमाणमाम्प्रत्ययवदिति वचनमेव । अन्यथा पूर्व वदित्यनुवृत्त्यैवानुप्रयोगस्य कृष श्रामः पूर्वेण तुल्यमित्यर्थलाभादिष्टसिद्धेः किं तेन