________________
६०]
सिद्धान्तकौमुदी। [भ्वादि. लिडादेशयोस्तझयोः एश् इरेच् एतौ स्तः। एकारोचारणं ज्ञापकं 'तडादेशानां टेरेवं न' इति । तेन डारौरसां न । कृ ए इति स्थिते । २२४२ असंयोगालिद्कित् । (१-२-५) असंयोगात्परोऽपिल्लिट् किस्स्यात् । 'क्किडति च' (सू २२१७) इति निषेधात् 'सार्वधातुकार्धधातुकयोः' (सू २१६८) इति गुणो न । द्विस्वात्परत्वाद्यणि प्राप्ते । २२४३ द्विवचनेऽचि। (१-१-५६ ) द्विस्वनिमित्तेऽचि परे अच प्रादेशो न स्याद् द्वित्वे कर्तग्य । २२४४ उरत् । (७-४-६६) प्रथमपुरुषैकवचने तादेशे एधाम् कृ त इति स्थिते । लिस्तटझयोरेशि । ननु लिटस्तझयोरिशिरिजित्येवास्तु । श्रादेशयोरेकारोचरणं व्यर्थम् , 'टित आत्मनेपदानाम्-' इत्येत्वेनैव सिद्धरित्यत आह एकारोचारणमिति । ज्ञापनस्य फलमाह तेन डारौ. रसां नेति । डा रौ रस् एषां लुडादेशभूतात्मनेपदादेशानां टेरेत्वं नेत्यर्थः । वस्तुतस्तु परत्वादेत्वे कृते पुनः प्रसङ्गविज्ञानेन डादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायाद् एत्वं नेति 'लुटः प्रथमस्य-' इति सूत्रभाष्य स्पष्टम् । कृ ए इति स्थित इति । तकाराकारसंघातस्य एकारः शित्त्वात् सर्वादेश इति भावः । असंयोगालिट् । अपिदिति । 'सार्वधातुकमपित्' इत्यतस्तदनुवृत्तरिति भावः। 'सार्वधातुकमपित्' इति ङित्त्वं तु नात्र प्रवर्तते । लिडादेशानामार्धधातुकत्वादिति बोध्यम् । कित्त्वस्य फलमाह क्विडति चेति । द्वित्वादिति । कृ ए इति स्थिते लिटि धातोरिति द्वित्वात् परत्वाद् 'इको यणचि' इति ऋकारस्य यणादेशे रेफे प्राप्त सतीत्यर्थः । कृते तु यणि एकाचवाभावाद् ‘लिटि धातो-' इति द्वित्वं न स्यादिति भावः । द्विर्वचनेऽचि । द्विरुच्यते येन परनिमित्तेन तद् द्विवचनं द्वित्वनिमित्तमिति यावत् । अचीत्यस्य विशे. षणमिदम् । 'अचः परस्मिन्-' इत्यतः अच इति 'स्थानिवदादेशः-' इ यत आदेश 'आम्प्रत्ययवत्-' इत्यनेन । लिटस्तझयोः । एशिति शकारकरणमकारविशिष्टतकारस्यादेशत्वाय । असंयोगात् । असंयोगादिति किम् , ममन्थे । अत्र नलोपो न । द्विवचनेऽचि । अचा सामानाधिकरण्यलाभाय द्विवचनशब्दस्य तनिमित्ते लक्षणा स्वीक्रियते । यद्वा उच्यत इति वचनम् , द्विर्वचनं यस्मिन्नचि तद् द्विवचनम् । अथवा द्विर्वचनमस्मिन्नस्तीत्यर्शश्राद्यच् , तदेतदाह द्वित्वनिमित्तऽचीति । इह 'अचः परस्मिन्-' इत्यतोऽच इति, 'स्थानिवदादेशः-' इत्यस्मादादेश इति, 'न पदान्त-' इत्यतो नेति चानुवर्तते तदाह अच आदेशो न स्यादिति । यद्यपीह वृत्त्यादौ अजादेशः स्थानिवत्स्यादिति रूपातिदेशपक्षः खीकृतः, फलं चोभयत्र तुल्यम् , तथाप्यादेशनिषेधपक्षोऽपि भाष्यारूढ इति स एवात्र स्वीकृतः। किं च आदेशमङ्गीकृत्य पुनः स्थानिरूपाश्रयणापेक्षया निषेधपरतया व्याख्यानमेव लघु । 'प्रक्षालनाद्धि