________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता।
[६१
इति 'न पदान्त-'इत्यतो नेति चानुवर्तते । द्विर्वचन इत्यावर्तते । एवं च द्वित्वे कर्तव्ये सतीत्यपि लभ्यते, तदाह द्वित्वनिमित्ते अचीत्यादिना । द्वित्वे कर्तव्ये सतीत्युक्तेः कृते द्वित्वे चके इत्यादौ यणादयो भवन्ति । अन्यथा तु न स्युः। द्वित्वनिमित्तस्य अचः सस्वात् । द्वित्वनिमित्ते' इति किम् ? दुषति । दिव् धातोः सनि द्वित्वात्परत्वाद् ऊठि कृते द्वित्वात्प्राग्या भवत्येव । तथा च द्यू इत्यस्य द्वित्वे दुद्यषतीति सिध्यति । द्वित्वे कर्तव्ये यणो निषेधे तु दियूषतीत्यभ्यासे इकार एव श्रूयेत । न पङ्कस्य दूरादस्पर्शनं वरम्' इति न्यायात् । 'न पदान्त-' इति निषेधानन्तरं पाठोड, प्येवं सत्यनुगृहीत इति श्रेयानयं पक्षः । इष्टानुरोधेन द्विवचन इत्यावर्त्य कालावधारणपरतयापि व्याचष्टे द्वित्वे कर्तव्य इति । कृते तु द्वित्वे यथायथमादेशः स्यादेवेति भावः द्वित्वनिमित्ते किम् , दुषतीत्यत्र द्वित्वात्परत्वादूठि कृते यदि यणः पूर्वमेव द्वित्वं स्यात् तदा दियूषतीत्यनिष्टं रूपं स्यात्तन्माभूदिति द्वित्वनिमित्त इत्युक्तम् । नयूठ द्वित्वनिमित्तम् । अचीति किम् , जेघ्रीयत । दध्मीयत । शाशय्यते । इह 'ई घ्राध्मोः' इति ईकारः, 'अयक् यि क्डिति' इत्ययादेशश्च निषिध्येत, स माभूदिति प्राचः । अन्ये त्वाहुः-अचीति व्यर्थ घ्रीयध्मीयशय्य इति द्वितीयाजवधिकस्यैकाचः कार्यितया यङो द्वित्वनिमित्तत्वाभावादिति । अचः किम् , असूषुपत् । इह 'खापेश्चलि' इति यत्सम्प्रसारणं तस्मिन्निषिद्धेऽभ्यासे उवर्णो न श्रयेत । न च द्वित्वे कृते पुनः संप्रसारणेन खापरवयवत्वाविशेषादभ्यासे तदुत्तरखण्डे च उकारश्रवणं भवेदिति वाच्यम् , परस्य संप्रसारणे कृते यून इत्यत्रेव 'न संप्रसारणे-' इति पूर्वस्य यणः संप्रसारणनिषेधात् । स्यादेतत्-चक्रतुरित्यत्र अच आदेशस्य निषेधाप्रवृत्त्या यण स्यादेव । अतुसो द्वित्वनिमित्तत्वेऽप्यकारस्यातयात्वात् । नच 'द्विवचनेऽचि' इत्यस्य वैयर्थ्यम् , चक्र इत्यादौ सावकाशत्वात् । तथा चैकाच्वाभावाद् ‘लिटि धातो:-' इतीह द्वित्वं न स्यादिति चेत् । मैवम् , इह द्वित्वनिमित्तशब्देन साक्षाद्वा समुदायघटकतया वा यद् द्वित्वप्रयोजक लक्ष्यानुरोधेन तस्य सर्वस्य ग्रहणात् । एतच्च 'ठस्येकः' इति सूत्रे कैयटे स्पष्टम् । तथा च ऊर्णोतेः सनि 'सनीवन्त-' इतीटपक्षे 'विभाषोर्णोः' इति ङित्त्वविरहे ऊर्जुनविषतीति सिद्धम् । सन्नन्तस्य द्वित्वविधानेऽपि सनो द्वित्वप्रयो. जकत्वेन तस्मिन्परे प्राप्तयोगुणावादेशयोदित्वे कर्तव्ये निषेधात् । अत एवाहुस्तद्भावभावितामात्रेणेह निमित्तत्वमिति । एवं च द्वित्वनिमित्तघटकतया सन इडागमोऽतुसोऽ. कारश्च द्वित्वनिमित्तमिति स्थितम् । नन्वेवम् ऋधातोः सनि 'स्मिपूज्वशां सनि' इति इटि कृते इस्शब्दनिमित्तकस्य गुणस्य 'द्विवचनेऽचि' इति निषेधे 'अजादेद्वितीयस्य' इति द्वित्वप्रसङ्गादरिरिषतीति न सिध्येत् । रिस्शब्दस्य द्वित्वे तु