________________
६२]
सिद्धान्तकौमुदी। [ भ्वादि. अभ्यासऋवर्णस्यात्स्यात्प्रत्यये परे । रपरत्वम् । 'हलादिः शेषः' (सू २१७६ )। 'प्रत्यये' किम्-वत्रश्च । २२४५ कुहोश्चुः । (७-४-६२) अभ्यासकवर्गतूकारः। द्वित्वनिमित्त इत्युक्तौ तु ऊठि परे द्वित्वात् प्राग् यणो न निषेधः । ऊठो द्वित्वनिमित्तत्वाभावात् । 'अचि' इति किम् ? जेघीयते । अत्र वाधातोर्यहि द्वित्वात् प्राग 'ई प्राध्मोः' इति ईकारादेशो न निषिध्यते। ईत्वस्य द्वित्वनिमित्त यनिमित्तकत्वेऽपि द्वित्वनिमित्तानिमित्तकत्वाभावात् । 'अचः' किम् ? असू षुपत् । इह खापेश्चङि द्वित्वात् प्राक् 'स्वापेश्चति' इति वकारस्य सम्प्रसारणं न निषिध्यते । तस्याजादेशत्वाभावात् । ततश्च कृते सम्प्रसारणे सुप् इत्यस्य दित्वे अभ्यासे उकारस्य श्रवणं सम्भवति। सम्प्रसारणे निषिद्धे तु स्वप् इत्यस्य द्वित्वे अभ्यासे उकारो न श्रूयेत । एवं च प्रकृते यणादेशात् प्राग् 'लिटि धातो:-' इति द्वित्वे कृ कृ ए इति स्थिते उरत् । उः अत् इति छेदः । ऋ इत्यस्य उरिति षष्टयेकवचनम्। 'अत्र लोपोऽभ्यासस्य' इत्यस्मादभ्यासस्येत्यनुवर्तते। 'अनस्य' इत्यधिकृतम् । तद्वशात् प्रत्यये परत इति लभ्यते। प्रत्यये परत एव अङ्गसंज्ञाविधानात् , तदाह अभ्यासऋवर्णस्येत्यादिना । रपरत्वमिति । अभ्यासऋवर्णादेशस्याकारस्य 'उरणपरः' इति रपरत्वमित्यर्थः । तथा च कर क ए इति स्थिते । हलादिः शेष इति । रेफस्य निवृत्तिरिति भावः। प्रत्यये किमिति । अङ्गेनैव प्रत्ययस्याक्षिप्तत्वात् प्रत्यये परत इति किमर्थमित्यर्थः । वव्रश्चेति । 'श्रोत्रश्चू छेदने', लिटि गल् द्वित्वं 'लिट्यभ्यासस्य-' इति अभ्यासरेफस्य सम्प्रसारणम् ऋकारः। उरत् । रपरत्वम् । हलादिः शेषः । वव्र श्वेति रूपम् । अत्र अभ्यासऋवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य य उरदत्वसम्पन्नः अकारः, तस्य 'अचः परस्मिन्-' इति स्थानिवत्त्वेन सम्प्रसारणतया तस्मिन् परे वकारस्य 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधान सम्प्रसारणमिति स्थितिः । 'उरत्' इत्यत्र प्रत्यये परत इत्यनुक्तौ तु सम्प्रसारणभूतऋकारस्थानिकस्य अकारस्य परनिमित्तकत्वा. भावेन स्थानिवत्त्वाप्रसक्तः सम्प्रसारणत्वाभावात्तस्मिन् परतो 'न सम्प्रसारणे सम्प्रसारयद्यपि सिध्यति, तथापि गुणनिषेधे रिस्शब्द एव दुर्लभ इति चेत् । अत्राहुः-गुणे रपरे कृते रिस्शब्दस्यैव द्वित्वम् । न च द्वित्वनिमित्ते ह्यचि गुणस्य निषेधः । इस्शब्दस्तु नेह निमित्तं कार्यित्वात् । न हि कार्थी निमित्ततयाऽऽश्रीयते, 'स्थण्डिलाच्छयितरि व्रते' इति ज्ञापकात् । अन्यथा शीङो ङित्त्वेन 'क्छिति च' इति गुणनिषेधाच्छयितरीति रूपस्यासिध्यापत्तेः । न च किति डिति परे गुणवृद्धी नेति व्याख्यायामुक्तेऽर्थे शयितरीति न ज्ञापकमिति वाच्यम् , तयाख्यायां छिनं भिन्नमित्यत्र गुणनिषेधो न स्यादित्यादिदोषस्य विक्ङति च' इति सूत्र एवोपपादितत्वात् । न चैवं कार्यिणो