________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३ हकारयोश्चवर्गादेशः स्यात् । एधांचके एधांचक्राते एधांचक्रिरे । २२४६ णम्' इति निषेधो न स्यादिति भावः । एवं च क कृ ए इति स्थिते कुहोश्चुः । कु ह इत्यनयोर्द्वन्द्वात् षष्ठीद्विवचनम् । 'अत्र लोपोऽभ्यासस्य' इत्यतः अभ्यासस्ये. त्यनुवर्तते, तदाह अभ्यासेति । यद्यपि स्थानिनां कवर्गीयाणां हकारस्य च षट्त्वात् चवर्गीयाणां पञ्चत्वान्न यथासंख्यम् , नापि स्थानत श्रान्तर्यम् , कराठतालुस्थानभेदात् । अाभ्यन्तरप्रयत्नसाम्यं तु कवर्गचवर्गयोरविशिष्टम् । हकारचवर्गयोस्तु नास्त्येव तत् । अतो बाह्यप्रयत्नत एवान्तयमिह व्यवस्थापकमाश्रयणीयम् । तत्र प्रथमस्य कवर्गीयस्य प्रथम एव चवर्गीयो भवति, अघोषश्वासविवाराल्पप्राणप्रयत्नसाम्यात् । नतु द्वितीयः,महाप्राणत्वात्।नापि तृतीयपञ्चमौ, घोषसंवारनादप्रयत्नत्वात् । नापि चतुर्थः, घोषसंवारनादमहाप्राणप्रयत्नत्वात् । तथा द्वितीयस्य कवर्गीयस्य द्वितीय एव चवर्गीयो भवति, अघोषश्वासविवारमहाप्राणप्रयत्नत्वात् । नतु प्रथमः, अल्पप्राणत्वात् । नापि तृतीयपञ्चमी, घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । नापि चतुर्थः, घोषसंवारनादप्रयत्नत्वात् । तथा तृतीयस्य कवर्गीयस्य तृतीय एव चवर्गीयो भवति । घोषसंवारनादाल्पप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोषश्वासविवारप्रयत्नत्वात् । अत एव न द्वितीयोऽपि, महाप्राणप्रयत्नत्वाच्च । नापि चतुर्थः, महाप्राणत्वात् । नापि पञ्चमः, घोषसंवारनादाल्पप्रारणसाम्येऽपि अनुनासिकतया भेदात् । तथा चतुर्थस्य कवर्गीयस्य चतुर्थ एव चवर्गीयो भवति, घोषसंवारनादमहाप्राणप्रयत्नत्वात् । न तु प्रथमः, अघोष श्वासविवाराल्पप्राणप्रयत्नत्वात् । नापि द्वितीयः, अघोषविवारश्वासप्रयत्नत्वात् । नापि तृतीयपञ्चमी, अल्पप्राणत्वात् । पञ्चमस्य तु कवर्गीयस्य अनुनासिकत्वाद् अकार एव । हकारस्य तु घोषसंवारनादमहाप्राणवतः तादृशो वर्गचतुर्थ एव झकार इति विवेकः । प्रकृते तु क क ए इति स्थिते अभ्यासककारस्य चकारे ऋकारस्य यणि रेफः। तदाह एधांचक इति । एककर्तृका भूतानद्यतनपरोक्षा वृद्धिरूपा कियेत्यर्थः । एघांचक्रात इति । कृो लिट श्रातामि टरेत्वम् । 'द्विवचनेऽचि' इति यणि निषिद्ध कृ इत्यस्य द्वित्वे उरदत्वम् । हलादिः शेषः। चर्वम् । यण । न च आतामित्यस्य द्वित्वनिमित्तत्वेऽपि आकारस्याचो द्वित्वनिमित्तत्वाभावात् कथमिह 'द्विवचनेऽचि' इति यणनिषेध इति वाच्यम् , साक्षाद्वा समुदायघटकतया वा द्वित्वप्रयोजकस्यैव द्वित्वनिमित्तशब्देन विवक्षितत्वादिति भावः । एधांचक्रिर इति । मस्य इरेच् । कृ निमित्तत्वानाश्रयणे सन्नन्तस्य कार्यित्वात्सनि परतः प्राप्तयोर्गुणावादेशयोरनिषेधादू
नविषतीत्यपि न स्यादिति वाच्यम् , मत्वर्थीयेनेनिना कार्यमनुभवत एव कार्यित्व. लाभात् । कर्णोतर्हि नुशब्द एव द्वित्वरूपं कार्यमनुभवति, न तु सन् । अरिरिषती.