________________
६४ ]
सिद्धान्तकौमुदी। [भ्वादिएकाच उपदेशेऽनुदात्तात् । (७-२-१० ) उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येट् न स्यात् । उपदेशे इत्युभयान्वयि । 'एकाच' इति किम्-यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हिइत्यस्य द्वित्वादि पूर्ववत् । अथ लिटि थासः सेभावे कृ इत्यस्य द्वित्वादौ एधां चक से इति स्थिते आर्धधातुकस्येड्वलादेरिति इडागमे प्राप्ते एकाच उपदेशेऽनुदा. त्तात । 'ऋत इद्धातोः' इत्यत धातोरित्यनुवर्तते । 'नेड्वशिकृति' इत्यतो नेति च । तदाह उपदेशे यो धातुरेकाजिति । एकः अच् यस्येति बहुव्रीहिः । आर्ध. धातुकस्येति । यद्यपीदं न श्रुतम् , नाप्यनुवृत्तिलभ्यम् , तथाप्यार्थिकमिदम् , आर्धधातुकस्यैवेटः प्राप्तेः । वृत्तिग्रन्थे तु भार्धधातुकस्येति नोपातम् । ननु ‘एकाच उपदेशेऽनुदात्तात्' इत्यत्र यदि उपदेश इत्येतदेकाच इत्यत्रान्वेति तदा कर्तुमित्यत्र इगिनषेधो न स्यात् । कृञ्धातोरूदृदन्तैरित्यादिना अनुदात्तत्वस्य वक्ष्यमाणत्वेऽपि तुमुन्प्रत्यये कृते 'नि यादिनित्यम्' इत्यायुदात्तत्वात् । यदि तु उपदेशे इत्येतद् अनुदातादिल्यनेनान्वेति । तदा यद्यपि नायं दोषः, कृते तुमुन्प्रत्यये उदात्तत्वऽपि धातूपदेशकाले अनुदात्तत्वेन तत्र इएिनषेधस्य निर्बाधत्वात् । तथापि एघांचकृषे इत्यादी इरिनषेधो न स्यात् । द्वित्वे कृते अनेकाच्त्वादित्यत आह उपदेश इत्युभयान्व यीति । 'उपदेशे' इत्येतद् ‘एकाच्' इत्यत्र 'अनुदात्तात्' इत्यत्र चान्वेति । मध्य. मणिन्यायादिति भावः । ननु ऊदृदन्तैरित्यादिना परिगणितानामनुदात्तोपदेशधातूनामेकाच्याव्यभिचारादेकाज्महणं मास्तु । उपदेशेऽनुदात्तादित्येवास्तु । एतावतैव कर्तु चकृष इत्यादाविणनिषेधसिद्धेरिति पृच्छति एकाचः किमिति । यङ्लुग्व्यावृत्तिरिति । यङ्लुकि चर्करितेत्यादौ इएिनषेधव्यावृत्तये एकज्ग्रहणमित्यर्थः । ननु कृतेऽप्येकाज्ग्रहणे कथं यङ्लुग्व्यावृत्तिः । कृते द्वित्वे अनेकाच्त्वेऽपि धातूपदेशे एका. चत्वादित्यत आह स्मरन्ति हीति । प्राचीनाचार्या निबधन्तीत्यर्थः । श्तिपा शपेत्या. देरुदाहरणानि यङ्लुनिरूपणे स्पष्टीभविष्यन्ति । नन्विह एकाग्रहणाद्यङ्लुकि इरिनषेधस्य व्यावृत्तावपि श्तिबादिनिर्दिष्टानां यङ्लुकि न्यावृत्तिः प्राचीनाचार्यसमताऽपि त्यत्र तु रिस्शब्दः कार्यभागिति वैषम्यादिति । उभयान्वयीति । मध्ये पाठादेहलीदीपन्यायेन पूर्वोत्तराभ्यां संबध्यत इत्यर्थः । तत्रोत्तरान्वयस्य कर्तुं गन्तुमित्यादाविएनषेधः फलम् । नित्खरेण संप्रत्युदात्तत्वात् । पिपक्षति बिभित्सतीत्यादाविएनषेधस्तु पूर्वान्वयस्य फलम् । द्वित्वे कृते अनेकाच्वात् । नन्वेकाच इत्युक्ते युपदेशपदेनाप्यन्वयः स्वीकर्तव्यस्तदेव मास्तु उपदेशऽनुदात्तादित्यनेनैवेष्टसिद्धेरिति शङ्कते एकाचः किमिति । पिपक्षतीत्यादाविव यङ्लुक्यपीरिनषेधः स्यादेवेसाशङ्कायामाह स्मरन्ति