________________
प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [६५
"श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्रणेन च ।
यत्रैकाग्रहणं चैव पञ्चैतानि न यलुकि ॥' इति । एतःहैवैकाग्रहणेन ज्ञाप्यते । 'प्रचः' इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावय॑ते । तेन वधर्हन्स्युप. पाणिनेरसंमतैवैत्यत आह एतच्चेति । एतत् श्तिपाशपेति श्लोकसिद्धं सर्वमपि, इह सूत्रे एकाग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः । ननु 'हनो वध लिङि' 'लुङि च' इति हनधातोर्वधादेशे कृते अवधीदित्यत्र इडागमो न स्यात् । वधदिशे कृते अनेकाच्वेऽपि धातूपदेशे हन्तेरेकाच्त्वादित्यत आह अच इत्येवैकत्वेत्यादि व्यावय॑त हीति । श्तिपेत्यादि । श्तिपा यथा-स्यतिहन्तियातिवातिद्रातीत्यादि । तेन प्रन्यजङ्घनीदित्यादौ 'नर्गद-' इति णत्वं न। शपा यथा-भरेति । तेन बिभर्तेः भरतेः (यङ् लुगन्तात् ) सनि विभरिषतीत्यत्र 'सनीवन्तर्ध-' इतीविकल्पो न, किंतु नित्यमेवेट । 'एकाचइति निषेधाप्नवृत्तेः । अनुबन्धेन निर्देशो द्विधा स्वरूपेणेत्संज्ञकत्वेन च । स्वरूपेण यथा'शीलः सार्वधातुके गुणः' 'दीडो युचि-' इति । शेशीतः । देदीतः । तसि क्तप्रत्यये चेमे क्रमेणोदाहरणे । इत्संज्ञकत्वेन यथा-'अनुदात्तक्तिः -' इति । तेन स्पर्धशीलादिभ्यः 'अनुदात्तडितः-' इत्यात्मनेपदं न। पास्पर्धीति । शेशयोति। गणेन यथाबेभिदीति । 'रुदादिभ्यः' इति श्नम न। एकाच्ग्रहणं प्रकृतसूत्रे । तेन बेभेदिता चेच्छेदितेत्यादाविपिनषेधो न । एतश्चेति । न च श्तिपाशपायंशे कथमिदं ज्ञापकमिति शङ्कयम् , एकादेशानुमतिद्वारा सर्वत्र ज्ञापनस्य 'उपपदमतिङ्' इत्यादौ दृष्टत्वात् । अतएव तत्र 'गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' इति सिद्धमित्युक्तम् । अनन्याथैः स्यतिहन्तिभरेत्यादिभिः श्तिशबादिभिरेव ज्ञापनसंभवाच्च । 'अपरस्परा:-' इति सूत्रे सातत्यग्रहणेन एकदेशानुमत्या 'लुम्पेदवश्यमः कृत्ये' इत्यादिपूर्वाचार्यश्लोको ज्ञापित इति तु तत्रैवावोचाम । मनोरमायां त्वेकदेशानुमतिद्वारा पूर्वावार्यपठितपरिभाषाया ज्ञापनस्य 'गतिकारकोपपदानाम्-' इत्यादौ दृष्टत्वादित्युक्तम् , तदयुक्तमिति नव्याः । 'गतिकारकोपपदानाम्-' इत्यायेव हि पूर्वाचर्याणां परिभाषा, न च तज्ज्ञापनं तत्रैव दृष्टमिति युज्यते वक्तुमिति । तद्वत इति । न च मत्वर्थलक्षणायां मानाभावः । वसत्यादीनामनुदात्तपाठस्यैव तत्र मानत्वात् । न चेदानीमनुदात्तपाठः परिभ्रष्टः, अाधुनिकानां वसतिशक्लित्यादिपाठस्त्वनार्षत्वान्न मानमिति शङ्कथम् , पाणिनिना पठितानामेवानुदात्तधातूनामाधुनिकैाख्यातृपरम्परया संगृहीतत्वात् । अन्यथा एकः अच् यस्येति बहुव्रीहिलाभार्थमेकग्रहणे कृतेऽप्यनुदात्तपाठस्य परिभ्रष्टत्वाद् वसतिशक्कादयोऽनुदात्ताः, न तु भ्वेधादय इति निर्धारणं न स्यात् । एकग्रहणेति।