________________
1
६६ ]
सिद्धान्तकौमुदी ।
[ भ्वादि देश एकाचोsपि न निषेधः । आदेशोपदेशेऽनेकाच्कत्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे एधांचा । २२४७ इणः षीध्वंलुलियां धोऽङ्गात् । ( ८- ३-७८) इय्यन्तादङ्गात्परेषां षीध्वं लुलियां धस्य मूर्धन्यः इत्यन्तम् । ‘एकाच उपदेशेऽनुदात्तात् ' इत्यत्र हि एकग्रहणमपनीयाच इत्युक्तेऽपि एकाच्कादिति लभ्यते । एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाभावात् । न चैवं सति एकत्वविशिष्टादचः परस्येत्येव लभ्येत, नत्वेकाच्कादिति बहुत्रीत्यर्थ इति वाच्यम्, अनुदात्तोपदेशपरिगणने शक्लृपचिमुच्यादीनां परिगणनसामर्थ्येन अच इत्यस्य मत्वर्थ लक्षणामाश्रित्य एकाज्वतो ग्रहणसंभवात् । तदेवमच इत्यनेनैव एकाच्कादिति सिद्धे यदेकप्रहणं करोति तत्सामर्थ्यादुपदेशे सर्वत्र एकाजेव न तु कस्मिंश्चिदप्युप. देशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाच्कोपदेशधातुर्व्यावर्त्यत इत्यर्थः । तेनेति । उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन, हन्त्युपदेशे - इनिति स्थान्युपदेशे - एकाचोऽपि सतो हनिति धातोरादेशस्य वधेः परस्य इग्निषेधो नेत्यर्थः । कुत इत्यत आह आदेशोपदेश इति । श्रवधोदित्यत्र 'अतो हलादेर्लघोः' इति वृद्धिनिवृत्तये हनो वधादेशस्य अदन्तताया भाष्ये उक्तत्वादिति भावः । ननु के ते अनुदात्ता धातव इत्यत श्राह अनुदात्तास्त्वनुपदमेवेति । पदस्य पश्चादनुपदम्, पदमात्रेती सतीत्यर्थः । अनन्तरमेवेति यावत् । एधांचकृष इति । इडभावे प्रत्ययावययत्वात् त्वम् । एधांचाथ इति । लिट आथामादेशः । टेरेत्वम् । द्वित्वादि पूर्ववत् । लिटो ध्वमष्ठे रेल्वे द्वित्वादौ एधांचकृध्ये इति स्थिते इणः षीध्वंलुलिटाम् । षीध्वं लुङ् लिट् एषां द्वन्द्वः । 'धः' इति षष्ठयेकवचनम् । इण इत्यङ्गविशेषयाम् । तदन्तविधिः । ‘अपदान्तस्य मूर्धन्यः' इत्यधिकृतम्, तदाह इराणन्तादित्यादिना । नन्वेकाज्ग्रहणं यङ्लुग्व्यावृत्त्यर्थमित्युक्त्वा पुनरेकग्रहणसामर्थ्यादित्युक्तौ परस्परव्याघातः स्यादिति चेत् । अत्राहुः - एका शब्देनैकाज्ग्रहणं यङ्लुग्यावृत्त्यर्थमिति नार्थः, किं तु वस्तुगत्यैवैकाञ्प्रहणम्, तचैकग्रहणं विनैव लभ्यत इत्यदोष इति । वधेरिति । यस्तु तव्यावृत्तयेऽनिट्कारिकास्वदन्तपर्युदास उक्तो व्याघ्रभूतिना स एव प्राचाऽनुसृतः । ‘अदू दृदन्तरुनुच्णुशी युनु क्षुश्वि डीश्रिभिः । वृञ्भ्यां च विनैकाचः स्वरान्ता धातवोऽनिटः' इति । स चादन्तपर्युदास इहोपेक्षितः । सूत्राननुगुणत्वात् । तथापि—'सर्वे सर्वपदादेशाः' इति न्यायेन कृइत्यादेः करित्यादिरादेशस्तस्य यथा स्थान्युपदेशं गृहीत्वा कर्ता हर्तेत्यादौ निषेधः प्रवर्तते तथैव वधादेशेऽपि प्रवर्तमानः केन वार्यताम् । अदन्तपर्युदाससामर्थ्यादिति चेत् । न सूत्रकारेणाऽपर्युदस्तत्वादिति भावः । इणः षीध्वम् । 'इएको:' इत्यधिकारेऽपि पुनरिग्रहणं कवर्गात्परस्य
1