________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६७
स्यात् । एधांचवे । एधचक्रे एधांचकृवहे एधचक्रमहे । एधबभूव । अनुप्रयोगसामर्थ्यादस्तेर्भूभावो न । अन्यथा हि 'क्रस्चानुप्रयुज्यते' इति 'कृभु - ' धकारस्य ढकारो मूर्धन्यः । घोषसंवारनादमहाप्राण प्रयत्नसाम्यात्, तदाह एघां - चक्रुव इति । उत्तमपुरुषैकवचने इटि एत्वे पूर्ववद् द्वित्वादौ कृते रूपमाह एधांचक इति । एधांच वह इति । लिटो वहिभावे एत्वे द्वित्वादि पूर्ववद् । एवं लिटो महिभावे द्वित्वादि पूर्ववत् । सर्वत्र 'असंयोगालिकित् इति कित्त्वाद् गुणाभावः । अथ भूधातोः लिङन्तस्यानुप्रयोगे उदाहरति एधांबभूवेति । एधांचक इत्यनेन समानार्थकम् । अनुप्रयुज्यमानस्य भूधातोः क्रियासामान्यार्थकत्वात् । नन्वस्तेरनुप्रयोगे लिडादेशस्यार्धधातुकत्वाद अस्तेर्भूरित्यार्धधातुके विहितो भूभावः कुतो न स्यादित्यत आह अनुप्रयोगेति । 'कृञ्चानुप्रयुज्यते -' इत्यत्र प्रत्याहारमाश्रित्य कृभ्वस्तीनामनुप्रयोगविधिसामर्थ्यादस्धातोर्भूभावो नेत्यर्थः । तदेवोपपादयति अन्यथेति । अनुप्रयुज्यमानस्यास्तेर्भूभावाभ्युपगमे 'कृश्चानुप्रयुज्यते -' इत्यनुप्रयोगविधौ 'क्रस्चानुप्रयुज्यते -' इति वा 'कृभुचानुप्रयुज्यते -' इति वा ब्रूयात् । तावता एधांबभूवेति सिद्धेरित्यर्थः । यद्यपि कृञित्युक्तौ लाघवमस्ति । तथापि एकस्यैव भवतेरधिकस्य लाभाय कृञिति प्रत्याहारक्लेशो न कर्तव्य इति भावः । श्रत एव 'अत उत्सार्वधातुके' इति सूत्रभाष्ये ऽनुप्रयोगे भूभावेन अस्तेरबाधनमिति भाष्यं सङ्गच्छते । ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधाम् अस् इति स्थिते द्वित्वे हलादिशेषे त्र् अस् इति स्थिते सवर्णदीर्घं बाधित्वा 'अतो गुणे' इति पररूपे प्राप्ते माभूदित्येतदर्थम् । तेनेह - पक्षीध्वम् । अङ्गात्परेषामिति । विहितानामित्युक्तौ तु दामो लुङि श्रदिवमित्यत्राव्याप्तिः स्यात्, लिहदुहनहां तु ढत्वधत्वधत्वेषु लितीध्वं धुक्षीध्वं नत्सीध्वमित्यत्रातिव्याप्तिश्च स्यादिति बोध्यम् । अङ्गात् किम्, वेविषीध्वम् । यद्यप्यर्थवतः षीध्वमित्यस्य ग्रहणात् कृषीवमित्यादावेव भवेद् नत्वत्र, तथाप्यर्थवद्प्रहणपरिभाषा क्वचिन्न प्रवर्तत इति ज्ञापनार्थमिदमुक्तम् । तेन 'अनिनस्मन्प्रहणानि -' इति सिद्धम् । एधांबभूवेत्यादि । ' श्राम्प्रत्ययवत् -' इति सूत्रे कृञ्प्रहणादनुप्रयोगान्तरे तङ् नेति 'शेषाश्कर्तरि-' इति परस्मैपदमेव, भावकर्मणोस्तु स्यादेव एधाबभूवे ईक्षां बभूवे । इति । श्रस्तेस्तु भावकर्मणोस्तङि कृते एशि इटि च रूपे विप्रतिपद्येते । तथाहि — उभयत्रापि 'ह एति' इति हादेशे कृते एधामहे ईक्षामाहे इति केचित् । तासिसाहचर्यादिय्येव हत्वं न त्वेशीत्यन्ये । तत्साहचर्यादेव सार्वधातुक एव एति हत्वम् । तथा च कर्मव्य तिहारे तङि व्यतिहे इत्यत्रैव भवति न तूक्तद्वयेऽपि । तेन एधामा से ईक्षामासे इत्येव रूपमित्यपरे । कृद्भिवतीति । यद्यपि कृञ् इत्युक्तौ लाघवमस्ति, तथापि धातुद्वयस्यैव लाभार्थं