________________
६८ ]
सिद्धान्तकौमुदी ।
[ भ्वादि
इति वा प्रयात् । २२४८ त आदेः । ( ७-४-७० ) अभ्यासस्यादेरतो दीर्घः स्यात् । पररूपापवादः । एधामास एधामासतुरित्यादि । एधिता एधितारौ एधितारः । एधितासे एधितासाथे । २२४६ धि च । ( ८-२-२५) धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे । २२५० ह एति । ( ७-४-५२ ) तासस्त्योः सस्य हः स्यादेति परे । एधिताहे एधितास्वहे एधितास्महे । एधिष्यते श्रत आदः । 'अत्र लोपः -' इत्यस्मादभ्यासस्यत्यनुवर्तते । 'दीघ इणः-' इत्यतो दीर्घ इति च, तदाह अभ्यासस्येति । अत्र यद्वक्तव्यं तन्नामधातुप्रक्रियायाम् इवाचरति तीत्यादिग्रन्थस्य व्याख्यानावसरे वक्ष्यते । एधामासेति । नचात्रानुप्रयुज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्कयम्, तत्र कृञ्ग्रहणेन प्रत्याहारप्रहणाभावस्य भाष्ये उक्तत्वात् । एधामासतुरित्यादीति । धामासुः । धामाथि धामासः एधामास । एधामास एधामासिव एधामासिम | इति लिट्प्रक्रिया | एधिति । लुटः तादेशे एध् त इति स्थिते शबपवादस्तास् इद् । 'लुटः प्रथमस्य -' इति डा टिलोपः, एधितेति रूपम् । 'दीधीवेवीटाम्' इति लघूपधगुणो न । एधिताराविति । लुट्, आताम्, तास्, इट् श्रात मित्यस्य रौभावः । 'रिच’ इति सलोपः । एधितार इति । झस्य रस्, तास्, इद्, 'रि च' इति सलोपः, रुत्ववि । एधितास इति । थासः से, तास्, इट्, 'तासस्त्यो:-' इति सलोपः । एधितासाथ इति । आथाम्, टेरेत्वम्, तास्, इट् । अथ ध्वमि टरेत्वे तासि इटि एधितास् ध्वे इति स्थिते । धि च । 'सस्स्यार्धधातुके' इत्यतः स इत्यनुवर्तते । 'तासस्त्योः -' इत्यतो लोप इति । अङ्गाक्षिप्तप्रत्ययो धीत्यनेन विशेष्यते । तदादिविधिः, तदाह धादाविति । तासः सलोपे एधिताध्वे इति रूपम् । श्रथ लुट इडादेशे एवे तासि इटि एधितास् ए इति स्थिते ह एति । ६ इति प्रथमान्तम् । अकार उच्चारणार्थः । 'सस्स्यार्धधातुके' इत्यतः स इति 'तासस्त्योर्लोपः' इत्यतः तासस्त्योरिति चानुवर्तते, तदाह तासस्त्योरिति । तासः सस्य हकारे एधिताहे इति रूपम् । एधितास्वह इति । लुटो वहिभावः, ढेरेत्वम्, तास्, इट् । एवम् एधितास्महे इति । तत्र महिभावो विशेषः । इति लुट्प्रक्रिया । एधिष्यत इति । लृटः तादेशे टेरेत्वम् । 'स्यतासी -' इति शबपवादः स्यः, इद् प्रत्ययावयवत्वात् षत्वम् । एधिष्येते इति । श्राताम्, टेरेत्वम्, स्यः, इट्, 'आतो ङितः' इत्याकारस्य इय्, 'लोपो व्योः-' इति प्रत्याहाराश्रयणे क्लेश इति भावः । पररूपापवाद इति । श्रपवाद इत्ययं प्रन्थो नामधातु प्रक्रियास्थः स्वग्रन्थेन सह विरुध्यते । तत्र हि श्र इवाचरति प्रति । प्रत्ययग्रहणमपनीय कास्यनेकाज् इत्युक्तेर्नाम् । श्रौ । अतुः । उः । द्वित्वम् 'अतो गुणे'.