________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ६६
ये धियन् । एधिष्यसे एधिष्येथे एधिष्यध्वे । एधिव्ये एधिष्यावहे एधिष्यामहे । २२५१ आमेतः । ( ३-४-६० ) लोट एकारस्याम्स्यात् । एधताम् एधेताम् एधन्ताम् । २२५२ सवाभ्यां वामौ । ( ३-४-६१ ) सकारवकाराभ्यां परस्य लोडेतः क्रमाद् व श्रम् एतौ स्तः । एधस्व एधेथाम् एधध्वम् । २२५३ एत ऐ । ( ३-४-६३) लोडुत्तमस्य एत ऐ स्यात् । श्रामोऽपवादः । एवै एधावहै एधामहै । २२५४ श्राडजादीनाम् । ( ६-४-७२ )
यलोपः, 'द गुणः' षत्वम् । एधिष्यन्त इति । झस्य टेरेत्वम्, झकारस्य अन्तादेशः, स्यः, इट, पररूपम्, षत्वम् । थासादावपि लटीव सुयोजमिति मत्वा रूपाणि न प्रदर्शितानि । तत्र थासः से, स्यः, इट्, षत्वम, एधिष्यसे इति रूपम् । एधिष्येते इतिवदाथामि एधिष्येथे इति रूपम् । ध्वम एत्वे, स्यः, इट्, षत्वम्, एधिष्यध्वे इति रूपम् । इट एत्वे, स्यः, इडागमः, षत्वम्, 'अतो गुरंग' इति पररूपम्, एधिष्ये इति रूपम् । वहिमह्योष्टेरेत्वम्, स्यः, इट्, अतो दीर्घः, एधिष्यावहे एधिष्यामहे इति रूपे । इति लृट्प्रक्रिया । श्रमेतः । 'आम्' 'एतः' इति च्छेदः । 'लोटो लड्वत्' इत्यतो लोट इत्यनुवर्तते, तदाह लोट एकारस्येति । लोडादेशावयवस्य एकारस्येत्यर्थः । एधतामिति । लोटः तादेशे टेः एत्वे आमादेशे शपि रूपम् । एधेतामिति । ताम् । टेरेत्वं शप् 'सावधातुकमपित्' इति ङित्त्वाद् 'श्रतो ङितः ' इत्याकारस्य इय्, गुणः, यकारलोपः, 'आमेतः' इत्येकारस्य म् । एधन्तामिति ।
1
स्य टत्वे शपि ककारस्य अन्तादेशे एकारस्य श्रम् । अथ लोटः यासः सेभावे शपि एधसे इति स्थिते । सवाभ्याम् । सश्च वश्च सवौ । ताभ्यामिति विग्रहः । अकारावुच्चारणार्थौ । वश्च श्रम् च वामौ । 'लोटो लङ्कत्' इत्यस्माद् लोट इति 'आमेतः' इत्यस्मादेत इति चानुवर्तते, तद्राह सकारेति 'श्रमेतः' इत्यस्यापवादः । एधस्वेति । एधसे इत्यत्र एकारस्य व इति वकाराकारसंघात श्रादेशः । एधेथामिति । आथाम्, दैरेत्वम्, शप्, 'श्रतो ङितः' इत्याकारस्य इय्, गुणः, यलोपः, 'आमेतः ' इत्याम् । एधध्वमिति । ध्वमि शप् टेरेत्वे कृते 'सवाभ्याम् -' इति वकारात् परत्वादेकारस्य अम् । उत्तमपुरुषैकवचने इटि टेरेत्वे शपि 'आमेतः' इत्येकारस्य आमि प्राप्ते । एत ऐ । ऐ इति लुप्त प्रथमाकम् । 'लोटो लवत्' इत्यस्माल्लोट इंति 'प्राडुत्तमस्य पिच्च' इत्यस्मादुत्तमस्येति चानुवर्तते, तदाह लोडुत्तमस्येति । एधै इति । ए ए इति स्थिते एकारस्य ऐत्वे 'आडुत्तमस्य -' इत्याडागमे 'आटश्च' इति वृद्धौ 'अत आदेः' इति दीर्घ. । गल औ वृद्धिरित्युक्तत्वात् । हलादिःशेषात् प्रागेव परत्वाद् 'अत आदेः' इति दीर्घे कृते तु पररूपशङ्कापि तत्र नास्तीति चिन्त्योऽयं ग्रन्थ इति