________________
७० ]
सिद्धान्तकौमुदी। [ भ्वादि. अजादीनामा स्यालुङादिषु । अटोऽपवादः । 'माटश्च' (सू २६६ ) ऐधत ऐघेताम् ऐधन्त । ऐधथाः ऐधेथाम् ऐधध्वम् । ऐधे ऐधावहि ऐधामहि । २२५५ 'वृद्धिरेचि इति वृद्धिः । एधावहै, एधामहै इति । वहिमयोप्टेरेत्वे शपि एकारस्य ऐत्वे पाटि सवर्णदीर्घः । इति लोप्रक्रिया । अथ एधधातोर्लङि 'लुङ्लङ्लुङ्वडुदात्तः' इत्यडागमे वृद्धिं बाधित्वा परत्वाद् 'अतो गुणे' इति पररूपे प्राप्ते । आडजादीनाम् । लुङादिष्विति । लुङ्लङलुङ्क्षिवत्यनुवृत्तरिति भावः । अटो. अपवाद इति । अटि सति पररूपं स्यादिति भावः । 'पाटश्च' इत्यनन्तरं वृद्धिरिति शेषः । यद्यपि 'वृद्धिरेचि' इति 'एत्येधति-' इति वा वृद्धौ इदं सिध्यति, तथापि ऐक्षतेत्याद्यर्थ सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् । ऐधतेति । लङस्तादेशे शपि प्राडा. गमे 'पाटश्च' इति वृद्धिः । लङादेशानां टिदादेशत्वाभावाद् एत्वं न भवति । 'श्राड. जादीनाम्' इति सूत्रं भाष्ये प्रत्याख्यातम् । ऐघेतामिति । प्रातामि शपि पाटि नव्याः । प्राडजादीनाम् । एतच्चाजादीनामटा सिद्धमिति वार्तिककृता प्रत्याख्यातम् । ननु अटि सति 'पृद्धिरेचि' इत्यनेन ऐधतेत्यादिसिद्धावपि ऐन्ददित्यादि न सिध्येत् । किं च 'अतो गुणे' इति पररूपप्रवृत्त्या ऐधतेत्यापि न सिध्येत् । यदि तु 'आटश्च' इति सूत्रं 'अटश्च' इति क्रियेत तर्हि अस्वपोऽहसत् इत्यत्र वृद्धिः स्यात् । 'रुदश्च पञ्चभ्यः' 'अड्गार्यगालवयोः' इति अडागमस्य सत्त्वाद् 'अतो रोरप्लुतात्-' इति रोरुत्वे सति अच्परत्वाचेति चेत् । न, 'उपसर्गादृति धातौ' इत्यतो धातावित्यपकृष्याजादौ धाताविति व्याख्यानात् । न च अखपोऽस्तीत्यादावोकारस्यान्तवद्भावेनाट् त्वात्परत्राजादिधातुसत्त्वाचोक्तदोषस्तदवस्थ इति वाच्यम् , आदित्यनुवर्षे अकाररूपादटोऽचि परे वृद्धिरिति व्याख्यानात् । एतेन अटश्चेत्युक्तो 'घट गतौ' इत्यस्माल्ल्युटि अटनमित्यत्रातिप्रसङ्गः स्यादित्येतदपि निरस्तम् । न चैवमपि आतत् आतीत् इत्यादि न सिध्यति । 'अटश्च' इत्यस्य ऐन्ददित्यादौ सावकाशतया परत्वादिह 'अतो गुणे' इत्यस्यैव प्रवृत्तेरिति वाच्यम् , चकारोऽत्र पुनर्वृद्धिविधानार्थ इत्यभ्युपगमादन्तरगत्वाद्वा 'अटश्च' इत्यस्यैव प्रवृत्तेः । स्यादेतत्-'पाडजादीनाम्' इति सूत्राभावे प्रास्ताम्
आसन् इति कथमटा सिध्यति । 'नसोः-' इत्यल्लोपेन 'अटश्च' इति तत्र वृद्ध्यप्रवृत्तेः । मैवम् , अन्तरङ्गत्वात्प्रागेवाडागमे कृते पद्धौ च कृतायो पश्चात् श्नसोरल्लोपस्याप्रसक्तेः । न च 'वार्णादाझं बलीयः' इति वृद्धेः प्रागल्लोप एव स्यादिति शङ्कयम् , व्याश्रयत्वाद् 'वार्णादाङ्गम्-' इति परिभाषाया अनित्यत्वाद्वा। तत्राहि नसोरल्लोपः' इति तपरकरणमेव लिङ्गम् , यदि वृद्धेः प्रागेवाल्लोपः स्यात्तहिं किं तेन तपकरणेनेति । यद्यपि वैदिकप्रक्रियायामानट श्राव् इत्यादौ 'छन्दस्यपि दृश्यते' इत्याडागमस्य वक्ष्यमाणत्वात्तदर्थ