________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [७१ लिङः सीयुट् । (३-४-१०२) लिङाल्मनेपदस्य सीयुडागमः स्यात् । सलोपः । एधेत एधेयाताम् । २२५६ झस्य रन् । (३-४-१०५) लिको झस्य रन्स्यात् । एधेरन् । एधेथाः एधेयाथाम् एधेध्वम् । २२५७ इटोऽत् । (३-४-१०६) लिङादेशस्यटोऽत्स्यात् । एधेय एधेवहि एधेमहि । पाशीलिङि आर्धधातुकस्वाल्लिङः सलोपो न । सीयुटसुटोः प्रत्ययावयवस्वास्षस्वम् । एधिषीष्ट वृद्धिः । 'पातो डितः' इत्याकारस्य इय् , 'श्राद् गुणः' यलोपः । ऐधन्तेति । भैरन्तादेशः, शप, प्राट् , वृद्धिः। ऐधथा इति । थास्, शप् , आट , वृद्धिः । ऐधेथामिति । प्राथाम् , शप् , श्राद् , वृद्धिः, इय् , श्राद्गुणः, यलोपः। ऐध. ध्वमिति । ध्वम् , शप् , श्राट् , वृद्धिः । ऐधे इति । इट् , शप्, 'श्राद्गुणः', आटो वृद्धिः । ऐधावहि ऐधामहि इति । वहिमयोः शप, , वृद्धिः, अतो दीर्घः । इति लप्रक्रिया । लिङः सीयुट । स्पष्टम् । परस्मैपदानां लिडादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् । सीयुटि टकार इत् । उकार उच्चारणार्थः । सलोप इति । 'लिङः सलोपः-' इत्यनेनेति शेषः। एधेतेति । लिङस्तादेशः, सीयुट् , शम् , सलोपः, आद्गुणः, यलोपः । एधेयातामिति । आतामि सीयुट, शप् , सलोपः, श्राद्गुणः। झस्य रन् । 'लिङः सीयुट्' इत्यतो लिङ इत्यनुवर्तते, तदाह लिङो झस्येति । लिङदिशस्य मस्येत्यर्थः । अनेकालत्वात्सर्वादेशः। एधेरनिति । झस्य रन , शप् , सीयुट , सलोपः, श्राद्गुणः, यलोपः। ऐधेथा इति। थास् , सीयुट्, शप् , सीयुटस्सस्य लोपः, श्राद्गुणः, यलोपः, यासस्सस्य रुत्वविसरें। एधेयाथामिति । प्राथाम् , सीयुट, सलोपः, शप् , आद्गुणः। एधेध्वमिति । ध्वम् , सीयुट्, शप् , सलोपः, श्राद्गुणः, यलोपः । इटोऽत् । इटः अत् इति च्छेदः । '
लिस्सीयुट्' इत्यतो लिङ इत्यनुवर्तते, तदाह लिङादशस्यति । 'अच्च घेः' इत्यत्रेव आदेश तकार उच्चारणार्थ एव, नस्वित्संज्ञक इति शब्देन्दुशेखरे 'दिव श्रौत्' इत्यत्र प्रपञ्चितम् । इत्संज्ञक एवेत्यन्ये । 'न विभक्तो-' इति निषेधस्तु न । आदे. शत्वात् प्राग् विभक्तिस्वाभावात् । 'झस्य रन्' इत्यत्र तु लक्ष्यानुरोधेन संयोगान्तलोपमाश्रित्य नकारान्तरप्रश्लेषादुपदेशे अन्त्यत्वाभावानकारस्य नेत्संज्ञेत्यलम् । एधे. येति । इट् तस्य प्रकारादेशः । सीयुट, शष् , सलोपः, श्राद्गुणः । एधेवहि एधेमहीति । वहिमह्योः सीयुट , सलोपः, शप् , आद्गुणः, यलोपः। इति विधिलिप्रक्रिया। आर्धधातुकत्वादिति । 'लिडाशिषि' इत्यनेनेति भावः । सलोपो नेति । सार्वधातुकग्रहणस्य 'लिङः सलोप:-' इत्यत्रानुवृत्तेरिति भावः । सीयुद्माटसूत्रं कर्तव्यं तथाप्याटं विनैवाव्यत्ययेन आयूर्वकत्वेन वा तत्र कथंचिद्याख्येयः