________________
७२] सिद्धान्तकौमुदी।
[ भ्वादि. एधिषीयास्ताम् एधिषीरन् । एधिषीष्ठाः एधिषीयास्थाम् एधिषीध्वम् । एधिषीय एधिषीवहि एधिषीमहि । ऐधिष्ट ऐधिषाताम् । २२५८ आत्मनेपदेष्वनतः । (७-१-५) अनकारात्परस्यात्मनेपदेषु झस्य 'अत्' इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः। ऐधिषायाम् । 'इणः पीवलुङ्लिटां धोऽङ्गान्' (सू २२५७)। सुटोरिति । लक्ष्यभेदात्पुनः प्रवृत्तिरिति भावः । युगपदेवोभयोः षत्वमियन्ये । एधिषीष्टेति । आशिषि लिङः तादेशः। आर्धधातुकत्वाद् न शप् , सीयुट् , तका• रस्य सुट, सीयुटस्सकारात् प्रागिडागमः, यलोपः, सीयुटः सुटा सकारस्य षत्वम् , तकारस्य ष्टुत्वेन टकारः । एधिषीयास्तामिति । श्राताम् , सीयुट् । आकारादुपरि तकारात्प्राक् सुट् । सीयुटः प्रागिट । तत उत्तरस्य सकारस्य षत्वम् । एधिषीरनिति । 'भस्य रन्' । सीयुट् , इडागमः, यकारलोपः, षत्वम् । एधिषीष्ठा इति । थास् , सीयुट, थकारस्य सुद, सीयुटः प्रागिट्, सकारद्वयस्य षत्वम् । थकारस्य ष्टुत्वेन ठकारः, रुत्वविसौ। एधिषीयास्थामिति । प्राथाम् , सीयुट् । आकारादुपरि थकारात् प्राक् सुट ,सीयुटः प्रागिट् । तत उत्तरस्य सकारस्य षत्वम् । एधिषीध्वमिति । ध्वम्, सीयुट, यलोपः, सीयुटः प्रागिट, षत्वम् । इणः परत्वेऽपि इराणन्तादङ्गात्परत्वं नास्ति । इटः प्रत्ययभक्तत्वात् । ततश्च 'इणः षीध्वम्-' इति ढत्वं न भवनि । एधिषीयेति । इटः अत्, सीयुट्, इट, षत्वम् । एधिषीवहि एधिषीमहीति । वहिमह्योस्सीयुट् इट् षत्वम् । इत्याशीलिङप्रक्रिया। ऐधिति । लुङः तादेशः, च्लिः, सिच् , इट् , धातोराट् , वृद्धिः, षत्वम् , ष्टुत्वम् । ऐधिषातामिति । आताम् , चिलः, सिच् , इट, आट् , वृद्धिः, षत्वम् । अथ झस्य श्रादर्भकारस्य "झोऽन्तः' इत्यन्तादेश प्राप्त आत्मनेपदेषु । 'झोऽन्तः' इत्यतो झ इति षष्ठयन्तमनुवर्तते । आत्मनेपदेष्विति षष्ट्यर्थे सप्तमी । आत्मनेपदावयवस्य झकारस्येति लभ्यते । 'अदभ्यस्तात्' इत्यतः अदित्यनुवर्तते। न अत् अनत् , तस्मादिति विप्रहः । तदाह अनकारादित्यादिना । ऐधिषतति । झावयवझकारस्य अत् इत्यादेशः, चिलः, सिच् , इट, आट , वृद्धिः, षत्वम् । ऐधिष्ठा इति । थास् , फिलः, सिच, इट् , आट , वृद्धिः, षत्वम् , थकारस्य ष्टुत्वेन ठकार:, रुत्वविसगें।। एधिषाथामिति । प्राथाम् , च्लिः, सिच, इट् , अाट , वृद्धिः, षत्वम् । अथ ध्वमो धस्य ढत्वं मिति स्थितस्य गतिमाहुः । सलोप इति । 'लिङः सलोपोऽनन्त्यस्य' इत्यनेन । एधेयातामिति । सीयुटः सलोपे आद्गुणः । एधिषीमिति । इणः परत्वेऽपि इणन्तादङ्गात्परत्वाभावाद् ‘इणः षीध्वम्-' इति ढत्वं न भवति । आत्मने । 'झोऽन्तः' इत्यतो झ इति 'अदभ्यस्तात्' इत्यस्माद् अदिति चानुवर्तते । तदाह झस्य