________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [७३ ऐधिवम् । इभिन्न एव इणिह गृह्यत इति मते तु ऐधिध्वम् । ढधयोर्वस्य मस्य च द्विस्वविकल्पात्षोडश रूपाणि । ऐधिषि ऐधिष्वहि एघिष्महि । ऐधिष्यत ऐधिष्येताम् ऐधिष्यन्तं । ऐधिष्यथाः ऐधिध्येथाम् ऐधिष्यध्वम् । ऐधिष्ये ऐधिष्यावहि ऐधिष्यामहि । उदात्तत्वालादेरिट । प्रसङ्गादनुदात्ताः संगृह्यन्तेस्मारयति इणः षीध्वमिति । ऐधिड्वमिति । ध्वम् , च्लिः, सिच् , इट् , आट्, वृद्धिः, धि च' इति सस्य लोपः । इणः षीध्वम्-' इति धकारस्य ढत्वम् । इटो लुप्तसिज्मक्ततया सिजन्ताद्धान्तभूतत्वेन इडन्तस्य इराणन्ताङ्गत्वादिति भावः । इभिन्न एवेति। उत्तरसूत्रे 'विभाषेटः' इत्यत्र इड्ग्रहणात् पूर्वसूत्रे 'इणः षीध्वम्-' इत्यत्र इभिन्न एव इण् गृह्यत इति केचिदाहुः। तन्मते तु प्रकृते इटः परत्वाद् धकारस्य ढत्याभावे ऐधिध्वमित्येव रूपमित्यर्थः । इदं तु मतान्तरं भाष्यानारूढमिति संचयितुं तुशब्दः । ढधयोरिति । मतभेदमाश्रित्येदम् । तत्र ढत्वाभावपक्ष धकारस्य 'अनचि च' इति द्वित्वविकल्पाद् द्विधमेकधमिति रूपद्वयम् । एवं टत्वे द्विढम् एकढामेति रूपद्वयम् । रूपचतुष्टयेऽपि 'यणो मयो द्वे वाच्ये' इत्यत्र मय इति पञ्चमीमाश्रित्य वकारस्य द्वित्वविकल्पादकवकाराणि द्विवकाराणि च प्रागुक्तानि चत्वारि रूपाणि भवन्ति । तथा च
आष्टौ रूपाणि संपन्नानि । मकारस्य द्वित्वविकल्पादेतान्यष्टौ रूपाणि एकमकाराणि द्विमकाराणि चेति षोडश रूपाणि संपन्नानीत्यर्थः । ऐधिषीति | लुङ इडादेशः, चिलः, सिच् , इडागमः, आट , वृद्धिः । वहिमह्योस्तु च्लेः सिचि इडागमे आटि वृद्धौ ऐधिष्यहि ऐधिष्महीति रूपे । इति लुप्रक्रिया । ऐधिष्यतेति । लुङः तादेशः, स्यः, इट , श्राट् , वृद्धिः, षत्वम् । ऐधिष्येतामिति । आतां स्यः, इट् , अाकारस्य इय् , आद्गुणः, यलोपः, आट , वृद्धिः, षत्वम् । ऐधिष्यन्तेति । भावयवझकारस्यान्तादेशः, स्यः, इट् , अाट , वृद्धिः, षत्वम् । ऐधिष्यथा इति । थास् , स्यः, इट् , अाट , वृद्धिः, स्त्वविसर्गों। ऐधिप्येथामिति । प्राथाम् , स्यः, इट,
आकारस्य इ-, 'श्राद्गुणः,' यलोपः, आट् , वृद्धिः, षत्वम् । ऐधिष्यध्वमिति । ध्वम् , स्यः, इट् , आट् , वृद्धिः, षत्वम् । ऐधिष्य इति । इडादेशः, स्यः, इडागमः, षत्वम् , आद्गुणः । वहिमह्योस्तु स्यः, इट् , अतो दीर्घः, प्राट् , वृद्धिः, ष-वम् । ऐधिध्यावहि ऐधिष्यामहि इति रूपे । नन्वेधधातोरनुदात्तत्कत्वाद् एकाच उपदेशेऽनुदानात् , इतीगिनषेधः कुतो न स्यादित्यत आह उदात्तत्वादिति । एधधाअदिति । आत्मनेपदेषु किम् , अदन्ति । मुन्वन्ति । अनतः किम् , एधन्ते । प्लवन्ते । इभिन्न एवेणिति । 'विभाषेटः' इति इटो विशिष्यग्रहणागोबलीवर्दन्यायेन कैश्वि