________________
७४ ] सिद्धान्तकौमुदी।
[ भ्वादि. ऊदृदन्तैयौंतिरुचणुशीनुनुन्शुश्विडीशिभिः । वृद्धाभ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः ॥
शक्लुपच्मुरिच्वन्विन्सिच्प्रच्छत्यनिजिर्भजः । तुर्यद्यपि अनुदात्तेत् , तथापि अनुदात्तस्येतो लोपे सति परिशिष्टो धातुर्नानुदात्त इति भावः । ननु कतिपये धातवः पाणिनिना अनुदात्ता उच्चरिता इति कथमिदानीन्तनैरवगन्तव्यमित्यत आह प्रसङ्गादिति । स्मृतस्योपेक्षानहत्वं प्रसङ्गः । पाणिनिपठितानामनुदात्तधातूनां तदानींतनशिष्यपरम्परया श्रानुनासिक्यवदिदानी ज्ञानं संभवतीति भावः । ऊदृदन्तैरिति । अजन्तेषु धातुषु ऊदन्तैः ऋदन्तैश्च धातुभिः विना यु रु फ्णु शीङ स्नु नु क्षु श्वि डीङ् श्रि एतैश्च धातुभिर्विन। वृ वृञ् प्राभ्यां च विना अन्ये एकाचः अजन्तधातवो निहता अनुदात्ताः स्मृताः । पाणिनिशिष्यपरम्परया ज्ञाता इत्यर्थः । अथ हलन्तेषु अनुदात्तान् धातून परिगणयति शक्ल पच् मुचिति । दिभिन्न एवेणिह गृह्यत इति भावः। ऊदन्तैरिति । ऊदृदन्तैर्विना यौत्यादिभिर्विना वृञ्भ्यां च विना अन्ये ये एकाचोऽजन्तास्ते निहताः । अनुदात्ता इत्यर्थः । तथा च दाता धाता चेता स्तोतेत्यादिषु इण न भवति । ऊदन्ता भूलूप्रभृतयः । ऋदन्ताः कृतदृप्रमृतयः । 'यु मिश्रणादौ' । 'रु शब्दे', 'रुङ् गतिरेषणयोः' इत्युभयोर्ग्रहणम् , निरनुबन्धपरिभाषया, 'लुग्विकरणाऽलुग्विकरणयोः-' इति परिभाषया वा । न च साहचर्याल्लुग्विकरणस्यैव प्रहणमिति शङ्कयम् , तस्यानित्यत्वात् । 'क्ष्णु तेजने'। 'शीङ् खप्ने' । 'ष्णु प्रस्रवणे' । 'णु स्तुतौ' । 'टुच शब्दे' । 'टुओश्वि गतिध्योः ' । 'डी विहायसा गतौ' । 'श्रिञ् सेवायाम्' । 'वृङ् संभक्तौ' । 'वृञ् वरणे' । नन्वेतद्भिभानामेकाचामेवानुदात्तत्वे ऊर्गुतः ऊर्गुतवानित्यादि न सिध्येदिति चेत् । मैवम् , 'ऊोतेMवद्भावो वाच्यः' इति वक्ष्यमाणवार्तिकेनेष्टसिद्धेः । तेन ऊोनूयते इत्यत्र तु 'धातोरेकाचः-' इति यङ् । ऊर्णनावेत्यत्रानेकाच्त्वेन प्रवृत्तस्याऽमोऽभावश्च सिध्यति । उक्तं च भाष्ये-'वाच्य ऊर्णोर्गुवद्भावो यप्रसिद्धिः प्रयोजनम् । श्रामश्च प्रतिषेधार्थमेकाचश्चेदुपग्रहात्' इति । 'विभाषा गुणेऽस्त्रियाम्' इति हेतावियं पञ्चमी । हेतुरिह फलम् । एतच्च कैयटे स्पष्टम् । उपग्रहः प्रतिषेधः । इट्प्रतिषेधार्थमित्यर्थः । एवं च णुवद्भावनैकाच्त्वात् 'युकः किति' इति निषेधप्रवृत्तेः ऊर्णत इत्यादि सिध्यति। 'एकाच उपदेशे-' इतीनिषेधस्तु न प्रवर्तते, णुवद्भावेनैकाच्त्वेऽप्यनुदात्तत्वाभावात् , ऊर्गुधातोर्णधातोश्चोदात्तत्वात् , तथा चोर्णविता और्णावीदिल्याद्यपि सिद्धम् । 'वसतिशवलघस्लुभ्यः' इति प्राचो प्रन्थस्थं पाठमुपेक्ष्य हलन्तेषु कादिक्रमेणाह शक्ल इति । कान्त एकः । चान्तेषु पच्मुत्रिच्वविच्सिचः षट् । 'डुपचष् पाके' 'पचि व्यक्ती