________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [७५
भजभुभ्रस्मस्जियज्युज्रज्रविजिरस्वजिससृजः ॥ अखिदिनुदः पद्यभिद्विद्यतिर्विनन् ।
शद्सदिस्विधतिस्कन्दिहदिक्रुक्षुधिबुध्यती ॥ शक्ल पच् मुच् रिच् वच् विच् सिच् प्रच्छि त्यज् निजिर् भज् एषां द्वन्द्वः । तत्र कान्तेषु शक्ल इत्येकः । लकार इत् । भाष्ये तु अनुबन्धरहितः पाठो दृश्यते । चान्तेषु पच् मुच् रिच वच् विच् सिच् इति षट् । अत्र 'डुपचष्' इत्यस्यैव ग्रहणं प्रसिद्धत्वात् । न तु 'पचि व्यक्तीकरणे' इत्यस्येत्याहुः । 'मुचलु मोक्षणे' इत्यस्यैव प्रहणम् , न तु 'मुचि कल्कने' इति भौवादिकस्य । अविशेषात्सर्वस्येत्यन्ये । छान्तेषु प्रच्छ एकः । प्रच्छेत्यकार उच्चारणार्थः । णिजिरित्यत्र इर इत्संज्ञा वक्ष्यते । भञ् भुजित्यादि सृज इत्यन्तमेकं पदम् । जान्तेषु त्यज् नि भ भ भुज् भ्रस्ज मस्ज यज् युज रुज् र विज् स्व सज् सृज् इति पञ्चदश । अक्षुदित्यादि नुद इत्यन्तमेकं पदम् । तत्र तुदेत्यकार उच्चारणार्थः । पद्यभिदित्येकं पदम् । समाहारद्वन्द्वः। पयेति श्यना निर्देशः । विद्यतिरिति श्यना निर्देशः । विनदिति श्नमा निर्देशः । शसदी. त्यादि बुध्यतीत्यन्तमेकं पदम् । समाहार द्वन्द्वः । सदि स्कन्दि हदि क्षुधि इति इका निर्देशः । स्विद्यति बुध्यतीति श्तिपा श्यन्विकरणयोर्निदशः । ततश्च दान्तेषु अद् करणे' द्वावपि पचित्यनेन गृह्यते । 'मुच्ल मोक्षणे' । रिचित्यनेन 'रिचिर् विरके' 'रिच वियोजनसंपर्चनयोः' इति यौजादिकश्च गृह्यते । वचित्यनेन तु 'वच परिभाषणे' ध्रुवो वचिरपि । वचि?जादिकोऽपि गृह्यते । विचिर् पृथग्भावे'। 'षिच क्षरणे'। छान्तेषु प्रच्छयेकः । जान्तेषु त्यनिजिर्भज्भजभुभ्रस्ज्मस्ज्यज्युज्जरविजिवससृजः पञ्चदश । भुजित्यनेन 'भुज पालनाभ्यवहारयोः' 'भुजो कौटिल्ये' इति च गृह्यते । युजित्यनेन 'युजिर् योगे' । 'युज समाधौ' इति च गृह्यते । केचित्तु व्याघ्रभूतिश्लोके भाष्ये च युजित्येतद् 'युजिर् योगे' इत्यस्यैकदेशोच्चारणमित्याहुस्तन्मते 'युज् समाधौ' सेट् । सृजित्यनेन तु 'सृज विसर्गे' दिवादिस्तुदादिश्च गृह्यते । दान्तेषु अखिच्छिद्तुद्नु पद्यभिद्विद्यतिर्विनद्शद्सद्धिद्यस्कन्दहदः पञ्चदश। खिदित्यनेन 'खिद दैन्ये' खिद्यतिः, खिन्दतिः खिनत्तिश्च गृह्यते । विद्यतीति । 'विद सत्ता. याम् । विनदिति । 'विद विचारणे'। धान्तेषु क्रुध्क्षुध्बुध्यबन्धयुधध्राध्यध्शुध्साध्सिध्यतय एकादेश । रुधित्यनेन 'रुधिर आवरणे' । 'अनो रुध कामे' इति दिवादिश्च गृह्यते । नान्तेषु मन्यहनौ द्वौ । 'मन ज्ञाने' दिवादिः । पान्तेषु प्राप्तिप्. छुप्तप्तिप्तृप्यदृप्यलिप्लुप्वपशप्स्वप्सृपस्त्रयोदश। क्षिपित्यनेन 'क्षिप प्रेरणे' क्षिप्यतिः, क्षिपतिश्च गृह्यते । 'छुप स्पर्शे' । तपित्यनेन 'तप संतापे' 'तप ऐश्वर्य' दिवादिः, 'तप