________________
७६ ]
सिद्धान्तकौमुदी।
[ भ्वादि. बन्धियुधिरुधी राधिव्यधुशुधः साधिसिध्यती। मन्यहन्नासिछुपिततिपस्तृप्यतिदृप्यती। लिप्लुप्वपशप्स्वपसृपियभभलभगमनम्यमो रमिः । क्रुशिदेशिदिशिश्मृश्रिशलिश्विश्स्पृशः कृषिः ॥
विष्तुद्विषदुषपुष्यपिविशिषशुश्लिष्यतयो घसिः । • तुद् खिद् छिद् तुद् नुद् पद् ( श्यन्विकरणः ) भिद् विद् ( श्यन्विकरणः ) विद् (श्नम्विकरणः) शद् सद् स्विद् (श्यन्विकरणः) स्कन्द हद् इति पञ्चदश । बन्धिरिति इका निर्देशः । युधिरुधी इत्येकं पदम् , इका निर्देशः । राधिव्यध्शुध इत्येकं पदम् । राधीति इका निर्देशः । साधिसिध्यती इति द्वन्द्वः । साधोति इका निर्देशः । ततश्च धान्तेषु क्रुध् क्षुध् बुध् (श्यन्विकरणः) बन्ध् युध् रुध् राध् व्यथ् शुध् साथ् सिध् (श्यन्विकरणः) इत्येकादश । मन्येत्यादि तिप इत्यन्तमेकं पदम् । मन्येति श्यना निर्देशः । छुपीति इका निर्देशः। तृप्यतिदृप्यती इति द्वन्द्वः, श्यना निर्देशः । लिबित्यादि यम इत्यन्तमेकं पदम् । स्पीति इका निर्देशः। रमिरिति भिन्नं पदम् , इका निर्देशः । तथा च नान्तेषु मन् हनिति द्वौ। मनिः श्यग्विकरणः । पान्तेषु आप क्षिप् छुम् तप् तिप् तृप् दृप् लिप् लुप् वा शप् स्वप् सप् इति त्रयोदश । भान्तेषु यम् र लभ् इति त्रयः। मान्तेषु गम् नम् यम् रम् इति चत्वारः । क्रुशिरित्यादि स्पृश इत्यन्तमेकं पदम् । दृशिरिति च इरित् । क्रुशि दिशि देशीति इका निर्देशः । तथा च शान्तेषु क्रुश् दंश् दृश दिश् मृश् रिश् रुश् लिश् विश् स्पृश इत्येते दश । कृषिरिति पृथक्पदम् , इका निर्देशः । विपित्यादि श्लिष्यतय इत्यन्तमेकं पदम् , पुष्येति श्यना निर्देशः, श्लिष्यतीति श्यन्विकरणस्य शितपा दाहे' इत्यपि णिजभावपक्षे गृह्यते । 'तिपृ क्षरणे' । तृप्यतिदृप्य योवेंट्कत्वेऽपि 'अनु. दात्तस्य चर्दुपधस्य-' इत्यमर्थोऽयं पाठः। भान्तेषु यभभ्लभस्त्रयः । मान्तेषु गम्नम्यम्मश्चत्वारः । शान्तेषु क्रुश्दंश्दिशश्मृशिशुलिविश्स्पृशो दश । 'रिश् स्श हिंसायाम्' । लिशित्यनेन 'लिश अल्पीभावे' दिवादिः, "लिश गतौ' तुदादिश्च गृह्यते । षान्तेषु कृत्विषतुद्विषदुष्पुष्यपिविशिष्शुश्लिष्य एकादश । कृषिति भौवादिकतौदादिको गृह्यते। विषियनेन 'विष्ल व्याप्तौ, तिष्विमिषिति दण्डकस्थोऽपि गृह्यते । शिषित्यनेन तु 'शिष्ल विशेषणे' कष खष शिषेति दण्डकस्थश्च गृह्यते। विषिति 'विष्ल व्याप्तौ' इति जौहोत्यादिक एव गृह्यते न तु दण्डकस्थः । शिषित्यनेनापि 'शिष्ल विशेषणे' इति रौधादिक एव न तु दण्डकस्थ इति बोपदेवादयः। सान्तेषु घस्लवसती द्वौ । 'घस्ल अदने' । 'लुङ्सनोघस्ल' इत्यत्तेरादेशस्य तु स्थान्यनु