________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [७७
वसतिर्ददिहिदुहो नमिहरुलिह्वहिस्तथा ॥ अनुदात्ता हलन्तेषु धातवो द्वयधिकं शतम् । तुदादौ मतभेदेन स्थितौ यो च चुरादिषु ॥
तृपहपी तो वारयितुं श्यना निर्देश प्रादृतः। किं च-स्विद्यपद्यौ सिध्यबुध्यो मन्यपुष्यश्लिषः श्यना ॥
वसिः शपा लुका यौतिनिर्दिष्टोऽन्यनिवृत्तये । निर्देशः । तथा च षान्तेषु कृष् त्विष् तुष् द्विष् दुष् पुष् (श्यन्विकरणः) पिष् विष् शिष् शुष् श्लिष् ( श्यन्विकरणः) इत्येकादश । घसिरिति पृथक्पदम् । इका निर्देशः। वसतिरिति पृथक्पदं श्तिपा निर्देशः । सान्तेषु धस् वस् इति द्वौ। दह्दिहिदुह इति द्वन्द्वः । दिहीति इका विर्देशः । नह् मिह् रुह् लिह् इति समाहारद्वन्द्वः । वहिरिति पृथक्पदम् , इका निर्देशः। तथेति चकारपर्यायः। हान्तेषु दह दिह् दुइ न मिह रुद्द लिह वह इत्यष्टौ । द्वयधिकं शतमिति । भाष्ये मृषेः षान्तेषु पाठस्तु लेखकप्रमादकृत इति भावः । अथ पान्तेषु द्वयोः श्यना निर्देशस्य फलमाह तुदादाविति । यो तृप्टपी तुदादी चुरादौ च मतान्तरीयत्वेन धातुपाठे स्थितौ, तौ अनुदात्तेभ्यो वारयितुं श्यना निर्देशः अभ्युपगत इत्यर्थः । अत एव 'शे मुचादीनाम्' इति सूत्रभाष्ये तृपितो दृपित इत्युदाहृतं सङ्गच्छत इति भावः । किं चेति । अन्यदपि वक्ष्यत इत्यर्थः। अन्यनिवृत्तय इति । विकरणान्तरदात्तत्वेनापि सिद्धम् । हान्तेषु ददिदुमिह्नलिवहयोऽष्टौ । दुहित्यनेन दुहिरिति, भौवादिको न गृह्यते, किं तु 'दुह प्रपूरणे' इति श्रादादिक एवेति प्राचः । इह मनोरमायां संग्रहश्लोक उक्त:-'कचच्छजा दधनपा भमशाः षसहाः क्रमात् । कचका णणटाः खण्डो गघजाष्टखजाः स्मृताः' इति । तत्र पूर्वार्धोपात्ता ये चतुर्दश वर्णास्तदन्ता धातव उत्तरार्धोपात्तकादिक्रमेण ये वास्तत्संख्याका बोध्या इत्यर्थः । अत एव कान्त एकः, चान्ताः षट्, छान्त एकः, जान्ताः पञ्चदशेत्यादि व्याख्यातम् । क इत्येकस्य, च इति षण्णाम् , ण इति पञ्चदशाना संज्ञेत्याद्यभ्युपगमात् । पान्तेषु द्वयोः श्यनाः निर्देशस्य फलमाह तुदादाविति । तृप्पी मतभेदेन तुदादौ स्थितौ । चुरादौ तु तृपिः सर्वमतेन स्थितः, दृपिस्त्वेकीयमतेनेति विवेकः । अतएव वक्ष्यति'तृप तृम्फ तृप्तौ' । द्वावपि द्वितीयान्तावित्यन्ये । 'दृप दृम्फ उक्लेशे' । प्रथमः प्रथमान्तः द्वितीयो द्वितीयान्त इत्येके इति च तुदादौ । चरादौ तु 'तृप तृप्तौ' । 'तृप दृप संदीपने' इत्येके इति च । अन्यनिवृत्तय इति । निवर्तनीयास्तु 'मिष्विदा स्नेहनमोचनयोः' । ‘पद स्थैर्ये' । 'षिध गत्याम्' । 'षिधू शास्त्रे माङ्गल्ये च' । 'बुधिर् बोधन'