________________
७८] सिद्धान्तकौमुदी।
[ भ्वादिनिजिर्विजिशक्ल इति सानुबन्धा प्रमी तथा ॥ विन्दतिश्चान्द्रदोर्गादेरिष्टो भाष्येऽपि दृश्यते । व्याघ्रभूत्यादयस्वेनं नेह पंछुरिति स्थितम् ॥ रजिमस्जी प्रदिपदी नुद् ध् शुषिपुषी शिषिः ।
भाज्यानुक्का नवेहोका ग्याघ्रभूत्यादिसंमतेः ॥ स्पर्ध संघर्षे । संघर्षः पराभिभवेच्छा। धास्वर्थेनोपसंग्रहादकर्मकः। स्पर्धते । निवृत्तय इत्यर्थः । तच्चाने तदार्धधातुकनिरूपणे स्पष्टीभावष्यति । अमी तथेति । उक्तानुबन्धरहितानां व्यावृत्तय इत्यर्थः । एतदपि तत्तदार्धधातुकनिरूपणे स्पष्टीभविष्यति । विन्दतिरिति । 'विद्लु लाभे' इति तौदादिकः । चान्द्रदौर्गादिव्याकरणसम्मतः । भाष्येऽपि दृश्यत इति । विन्दतिविनत्तिविद्यतीति तत्र पाठादिति भावः । एनमिति । विन्दतिमित्यर्थः । नेह पेटुरिति । तथापि भाष्यप्रामाण्यादस्यानिटकत्वमिति भावः। रसिमस्जी इत्येकं पदम् । नुद् क्षुध् इति पृथक्कृते पदे । शुषिपुषी इत्येकं पदम् । शिषिरित्यनन्तरम् इत्येते इति शेषः । नवेहेति । नव धातवो भाष्यानुक्ता अपि इहानुदात्तेषु परिगणिता इत्यर्थः । कुत इत्यत पाह व्याघ्रभूत्यादिसम्मतेरिति । भाष्ये त्वेभ्यो नवभ्योऽन्येषां परिगणनं नवानाम. प्येषामुपलक्षणमिति भावः । तेन रक्तं रागात् , तदस्मिन्नन्नं प्रायेण, तोऽकृतमितप्रतिपक्षाः, शुष्कधृष्टी, क्लेन नविशिष्टेनेत्यादिसौत्रप्रयोगा:-नुन्नः, मग्नः, पुष्टः, मक्ता, मतव्यमित्यादिभाष्यप्रयोगाश्चात्र लिङ्गम् । इत्यनिटकारिकाः । स्पर्ध संघष इति । इति भौवादिकाः । 'मनु अवबोधने' तानादिकः । 'पुष पुष्टौ' भौवादिकः कैयादिकश्च । 'श्लिष दाहे' भौवादिकः । 'वस आच्छादने' श्रादादिकः । एते अनुदात्तत्वराहिल्यात् सेटः । 'युञ् बन्धने' कैयादिकोऽयमनुदात्त इत्यनिट् । श्यना निर्देशन संप्रात्यास्तु 'निष्विदा गात्रप्रक्षरणे' । ‘पद गतौ' । 'षिधु संराद्धौ' । 'बुध अवगमने' । 'मन ज्ञाने' । 'पुष पुष्टौ' । 'श्लिष आलिङ्गने' । 'वस निवासे' । एतेऽनिटः । 'यु मिश्रणामिश्रणयोः' अयं सेट् । अमी तथेति । 'णिजिर् शुद्धौ' । 'श्रोविजी भयचलनयोः' । 'शक मर्षणे' इत्येषां क्रमेण श्रादादिकतौदादिकदेवादिकानां व्यावृत्तये सानुबन्धा निर्दिष्टा इत्यर्थः । विन्दतिरिति 'विद्ल लाभे'। इष्ट इति । अनिटत्वेनेति शेषः । भाष्यानुक्ता इति । भाष्यकृताऽनुक्ताः, न तु प्रत्याख्याता इति नास्तीह तद्विरोधः । ततश्च व्याघ्रभूत्यादिप्रन्यानुरोधात् 'शुष्कधृष्टौ' 'केन नविशिष्टे
१ अत्र 'नुद्' इति पाठो बालमनोरमानुरोधेन । परन्तु 'तुद्' इति बहुसम्मतः पाठः। .