________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ७ २२५६ शर्पूर्वाः खयः । ( ७-४-६१ ) अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । ' हलादिः शेष:' ( सू २१७8 ) इत्यस्यापवादः । पस्पर्धे । स्पर्धिता | स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत | स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । श्रस्पर्धिष्यत । गाट
1
वर्तते इति शेषः । पराभिभवेति । परस्याभिभवः पराजयः । तद्विषयकेच्छेत्यर्थः । नन्वत्रेच्छायां पराभिभवस्य कर्मतया स्पर्धधातोः सकर्मकत्वाद् देवदत्तो यज्ञदत्तं स्पर्धयतीत्यादौ 'गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् -' इत्यकर्मककार्यं कथमित्यत आह धात्वर्थेनोपसंग्रहादकर्मक इति । धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्मकत्व - मिति 'सुप श्रात्मन: क्यच्' इति सूत्रभाष्ये प्रपञ्चितत्वादिति भावः । नचैवं सति पदव्यवस्थायां ‘स्पर्धायामाङः' इत्यत्र कृष्णश्चाणूरमाह्वयते स्पर्धत इत्यर्थ इति मूलग्रन्थविरोध इति वाच्यम्, तत्र स्पर्धेरभिभवपूर्वकाह्वाने वृत्तेरित्यलम् । स्पर्धत इति । कत्थन्ताः षट्त्रिंशदनुदात्तेत इत्युक्तेरात्मनेपदम् । एधधातुवद् लटि रूपाणीति भावः । धातोरिजादित्वाभावाद् 'इजादेश्च -' इति लिट्याम् न । अत एव नानुप्रयोगोऽपि । किन्तु लिटस्तादेशे 'लिटस्तमयोः -' इति तस्यैशि 'लिटि धातो:-' इति द्वित्वे 'हलादिः शेषः ' इत्यभ्यासे प्रथमहव्यतिरिक्तलां निवृत्तौ सस्पर्धे इति प्राप्ते । शर्पूर्वाः खयः । अभ्यासस्येति । 'अत्र लोपोऽभ्यासस्य' इत्यतस्तदनुवृत्तेरिति भावः । ' शर्पूर्वा: - ' इत्यत्र शर् पूर्वो येभ्य इत्यतद्गुणसंविज्ञानो बहुव्रीहिः । तेन शर् न शिष्यते । शिष्यन्त इति । ' हलादिः शेषः' इत्यतः शेष इत्यनुवृत्तं कर्मणि घमन्तं बहुवच नान्ततया विपरिणम्यत इति भावः । तथा च प्रकृते अभ्यासे खय् पकारः शिष्यत । 'नन्द्राः संयोगादयः' इति रेफस्य द्वित्वनिषेधो न शङ्कयः । द्वितीयैकाजवयवस्यैव तन्निषेधात्, तदाह पस्पर्ध इति । नच वत्रश्चेत्यत्राभ्यासे चकार एव शिष्येतेति वाच्यम् . 'इलादिः शेषः' इत्यतो हि श्रादिरित्यप्यनुवर्तते । शर्व्यतिरिक्तवर्णपेिक्षया धात्वादिभूता इत्यर्थः । पस्पर्धाते पस्पर्धिरे, पस्पर्धिषे पस्पर्धाये पस्पर्धिध्व, पस्पर्धे पस्पर्धिवहे पस्पर्धिमहे, इति लिटि रूपाणि सुगमानि । स्पर्धितेति । लुटि एधधातुबद् रूपाणि सुगमानीति भावः । स्पर्धिष्यत इति । लुटि एधधातुवद्रूपाणीति नानञ्' इत्यादि सौत्रप्रयोगादत्तुं प्रतिपत्तुमित्यादिसार्वलौकिकव्यवहाराच्च उपलक्षणतयैव भाष्यं नेयमिति भावः । अकर्मक इति । अत्र केचित् — श्रभिभवेच्छा धात्वर्थस्तथा च स्पर्धार्थिकस्य सकर्मकता दृश्यते 'आहास्त मेरावमरावतीं या' इति । उदाहरिष्यते च 'स्पर्धायामाङः' इत्यत्र स्वयमेव ' कृष्णश्चाणूरमाह्वयते स्पर्धत इत्यर्थः' इति । श्रीहर्षोऽपि प्रायुङ्क - 'तन्नासत्ययुगान्तं वा त्रेधा स्पर्धितुमर्हति' इति । श्रतोऽस्य कर्मकत्वं न्याय्यमित्याहुः । शर्पूर्वाः । अतद्गुणसंविज्ञानोऽयं बहुव्रीहिः । तेन शरो न