________________
८० ] सिद्धान्तकौमुदी।
[ भ्वादि ४ प्रतिष्ठालिप्सयोग्रन्थे च । गाधते । जगाधे । वाट ५ लोडने । लोडनं प्रति. घातः । बाधते । नाथ ६ ना . यासोपतापैश्वर्याशीःषु । 'आशिषि नाथ इति वाच्यम्' । अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते । दध ८ धारण । दधते । २२६० अत एकहल्मध्येऽनादेशादेलिटि । भावः । स्पर्धतामिति । लोटि एधिवद्रूपाणीति भावः । अस्पर्धतेति । लङि एधिवद्रूपाणीति भावः । हलादित्वादडेव न त्वाडिति विशेषः । स्पर्धेतेति | विधि. लिहि एधिवदपाणि । स्पर्धिषीऐति । आशिषि लिडि एधिवद्रपाणि । अस्पधिष्टेति । लुङि एधिवद्रूपाणि । अडागमः, न त्वाड् इति विशेषः । अस्पर्धिष्यतेति । लुङि एधिवडूपाणि । अडागमो विशेषः । न त्वाट । गाधृ प्रतिष्ठति । चतुर्थान्तो धातुः । ऋकारो 'नाग्लोपिशास्वृदिताम्' इति निषेधार्थः । अजगावत् । प्रतिष्ठा आधारे स्थितिः । ग्रन्थो ग्रन्थनं रचनम् । जगाध इति । लिटि द्वित्वादि । अभ्यासस्य ह्रस्वः, चुत्वम् । बाधृ इति । प्रतिघातः पीडनम् । नाथ नाधृ इति । द्वितीय. चतुर्थान्तौ धातू । उपतापो ज्वरप्रयुक्ता पीडा। आशीराशासनम् । द्वितीयान्तस्य नाथधातोविशेषमाह आशिषि नाथ इति । अत्र नाथ इति षष्टी । 'अनुदात्तङित-' इत्यत आत्मनेपदमित्यनुवर्तते । अनुदात्तत्त्वादेव सिद्धे नियमार्थमिदं वार्तिकम् । तदाह अस्याशिष्येवेति । श्राशासनार्थवृत्तेरेव नाथधातोरात्मनेपदम् । याच्ञाद्यर्थवृत्तेस्तु 'शेषात् कर्तरि-' इति परस्मैपदमेवेत्यर्थः । नाथत इति। आशास्ते इत्यर्थः । अन्यवेति । याच्आद्यर्थे विद्यमानस्येत्यर्थः । अथ चतुर्थान्तस्य नाधधातोरुदाहरति नाधत इति । दधेति । चतुर्थान्तोऽयम् । तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दघ् दध् ए इति स्थिते । अत एकहल्मध्ये । श्रादेश आदिर्यस्येति बहुव्रीहिः । 'अङ्गस्य' इत्यधिकृतम् अन्यपदार्थः । लिटीति निमित्तसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति । लिटि परे निमित्ते य आदेशः स आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते । अङ्गस्येत्यवयवषष्ठी। तथा च तथाविधानावयवस्याऽत इति लभ्यते । एकशब्दः असहायवाची । 'एके मुख्यान्यकेवलाः' इत्यमरः । एकौ असंयुक्तौ हलौ एकहलौ, तयोर्मध्य एकहल्मध्यः, तत्रेति विग्रहः । अत इत्यस्यैव शेषः किं तु खयामेव । इह स्पर्ध इत्यत्र रेफस्यापि द्वित्वं भवति, द्वितीयस्यैकाचः सबन्धिरेफस्यैव 'नन्द्राः-' इति निषधादिति बोध्यम् । गाध । ऋकारो 'नाग्लोपिशास्वदिताम्' इति निषेधार्थः । अजगाधत् । आस्पदं स्थापनम् अवस्थानं वा। प्रतिष्ठा एकत्र स्थापनं संदर्भो वा प्रन्थः । नाथ नाधृ । उपतापो रोगः । अनुदात्तत्त्वादेव सिद्धे नियमार्थ वार्तिकमित्याह आशिष्येवेति । अत एकहल्मध्ये | एकशब्दोऽ.