________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ८१
( ६-४- १२० ) लिनिमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्रहरमध्यस्थस्याकारस्यैकारः स्यादभ्यासलोपश्च किति लिटि । २२६१ थलि च सेटि । ( ६-४- १२१ ) प्रागुक्रं स्यात् । श्रादेशश्चेह वैरूप्यसंपादक एवाश्रीयते, शसिदयोः प्रतिषेधवचनाज्ज्ञापकात । तेन प्रकृतिजश्वरां तेषु सत्स्वपि एवाभ्यासलोपो व एव । देधे देधा देधिरे । 'श्रतः ' किम् - दिदिवतुः । 'तपरः किम् - ररासे । 'एक - इत्यादि' किम् - - तत्सरतुः । ' श्रनादेशादेः' किम्-चकणतुः । लिटा विशेषणमिदम् । 'ध्वसोद्धौ -' इत्यत एदिति श्रभ्यासलोप इति चानुवर्तते । 'गमहन-' इत्यतः कितीत्यनुवर्तते, न तु ङितीति, लिड देशानां ङित्त्वासंभवात् । लिटीत्येत्वविधौ परनिमित्तं च । 'आवृत्त्या उभयार्थलाभः, तदाह लिग्निमित्तेत्यादिना । थलि च । प्रागुक्तमिति । 'अत एकहल्मध्ये -' इति यत् प्रागुक्तं एत्वादि तत् सेटि थलि च स्यादित्यर्थः । थलः कित्त्वाभावात् पूर्वसूत्रेणाप्राप्तौ वचनम् । ननु देधे पेततुरित्यादौ 'अभ्यासे चर्च' इति जशां चरां च जशि चरि च लिनिमित्तादेशादित्वात् कथमेत्याभ्यासलोपावित्यत आह आदेशश्चेति । इह 'श्रत एकहल्मध्ये -' इति सूत्रे आदेशशब्देन स्थान्यपेक्षया विरूप एवादेशो विवक्षितः । तथा च तथाविधादेशादेरेव एत्त्वाभ्यासलोपौ न भवतः स्थानिसरूपादेशादेस्तु न पर्युदास इत्यर्थः । शसिदद्योरिति । 'न शसददवादिगुणानाम्' इति शसिदद्योरेत्वाभ्यासलोपयोः प्रतिषेध उच्यते । यदीह यथाकथंचिदादेशादेः पर्युदासः स्यात्, तर्हि शसिदयोरभ्यासे शकारदकारयोश्वजशोः शकार दकारादेशे सति आदेशादित्वादेव एत्वाभ्यासजोपयोः श्रभावसिद्धौ 'न शसददवा -' इति तत्प्रतिषेधोऽनर्थकः स्यात् । अतो वैरूप्य संपादकादेशादेरेव पर्युदासो विज्ञायत इत्यर्थः तेनेति । स्थानिसरूपादेशादेः पर्युदासाभावादित्यनेनेत्यर्थः । सत्स्वपीति । देधे पेतुरित्यादौ दकाराद्यादेशेषु सत्स्वपीत्यर्थः । देध इति । दध् दध् ए इति स्थिते दकारादकारस्य एत्त्वेऽभ्यासलोपे च रूपम् । 'असंयोगाल्लिकित्' इति कित्त्वमिह बोध्यम् । देधिर इति । देधिषे देधाथे देधिध्वे, देवे देधिवहे देधिमहे इति रूपाणि संभवन्तीति भावः । दिदिवतुरिति । दिव्धातोतुसि द्वित्वे हलोर्मध्ये अतोऽभावादेत्त्वाभ्यासलोपो नेति भावः । तपरः किमिति । श्रुत इति तपरकरणं किमर्थमित्यर्थः । ररास इति । राम शब्दे' भ्वादिरात्मनेपदी । अत्र हल्मध्यस्थावर्णस्य हस्खत्वाभावादेत्वाभ्यासलोपौ मेति भावः । एकेत्यादि त्रासहायवचनः । एकयोलोर्मध्य इत्यर्थः । तद्याचष्टे असंयुक्तेति । इष्टानुरोधेन लिटीत्यावर्त्य आदेशविशेषणमेत्वस्य निमित्तं च क्रियत इत्याह लिरिनमिचेति । कति लिटीति । यद्यपि 'गमद्दन -' इति सूत्रे विडतीति वर्तते तथापि प्रयोजना