________________
८२]
सिद्धान्तकौमुदी। [ भ्वादिप्रादेशविशेषणादिह स्यादेव-नेमिथ, सेहे ॥ स्कुदि । आप्रवणे । श्राप्रवणमुत्प्लवनमुद्धरणं च । २२६२ इदितो नुम्धातोः। (७-१-५८) स्कुन्दते । चुस्कुन्दे । विदि १० श्वेत्ये । अकर्मकः । विन्दते । शिश्विन्दे । वदि ११ अभि. वादनस्तुत्योः । वन्दते । ववन्दे । भदि १२ कल्याणे सुखे च । भन्दते । बभन्दे । किमिति । एकहल्मध्यस्थस्येति किमर्थमित्यर्थः । तत्सरतुरिति । 'त्सर च्छद्मगतौ' । लिटोऽतुसि द्वित्वे अभ्यासाकारस्य नासंयुक्तहल्मध्यस्थत्वमिति भावः । चकणतुरिति । 'कण शब्द' । लिटोऽतुसि द्वित्वे 'कुहोश्चुः' इति ककारस्य चुत्वेन चकारः । तथा च वैरूप्यसंपादकादेशादित्वादेत्त्वाभ्यासलोपो नेति भावः । अथ लिएिनमित्तादेशादिकमित्यत्र लिएिनमित्तेत्यस्य प्रयोजनमाह लिटेति । नेमिथेति । 'णमु प्रहृत्वे शब्दे च'। 'यो नः' इति नत्वम् । थलि इटि द्वित्वे नत्वसंपन्ननकारादेशादित्वेऽपि नत्वस्य लिएनमित्तकत्वाभावाल्लिरिनमित्तकादेशादित्वाभावादेत्त्वाभ्यासलोपौ निर्बाधाविति भावः। सेह इति । 'षह मर्षणे'। 'धात्वादेः षः सः' इति सत्वे लिटि द्वित्वे सत्वसंपन्नसकारादेशादित्वेऽपि सत्वस्य लिनिमित्तकत्वाभावाद् लिग्निमित्तकादेशादित्वविरहादेत्त्वाभ्यासलोपो निर्वाधाविति भावः । दधिता । दधिष्यते । दधताम् । अदधत । दधेत । दधिषीष्ट । अदधिष्ट । अदधिष्यत । स्कदीति । उत्प्लवनमुत्प्लुत्य गमनम् । इदितः। इद् ह्रस्व इकारः, इन् इत्संज्ञकः यस्य स इदित् , तस्येति विग्रहः । इत्संज्ञकदन्तधातोरित्यर्थः । तेन चक्षिादौ न दोषः । नुमि मकार इत् । उकार उच्चारणार्थः । मित्त्वादन्त्यादचः परः । स्कुन्दत इति । 'नश्चापदान्तस्य-' इत्यनुस्वारः परसवर्णः । चुस्कुन्द इति । लिटि द्वित्वे 'शपूर्वाः खयः' इत्यभ्यासे ककारः शिष्यते । 'कुहोश्चुः' इति तस्य कुत्वेन चकारः। शिवदीति । श्वैत्यं श्वैत्यकरणम् । अकर्मक इति । श्वैत्यस्य धात्वर्थोपसंग्रहादिति भावः । ततश्च श्विन्दयति देवदत्तं यज्ञदत्त इत्यादौ 'गतिबुद्धिप्रत्यवसान-' इत्यादिना अकर्मककार्य द्वितीया भवति । श्वेतीभवनं वा श्वैत्यम् । श्विन्दत इति । श्वेतीभवतीत्यर्थः । इदित्वान्नुम् । अनुखारपरसवौँ । शिश्विन्द इति । नुमि कृते गुरुमत्त्वेऽपि इजादित्वाभावादाम् नेति भावः। वदीति। अभिवदनम् श्राशीर्वादः, तत्कारणभूतो व्यापारः प्रणामादिरभिवादनम् । वन्दत इति । इदित्वान्नुम् । भावाद् कितीत्येतनानुवर्तत इति भावः । किति किम् , ननाद । लिटि किम् , पापच्यात् । चकणतुरिति । न चैवमपि बभणतुरित्यत्र 'अभ्यासे चर्च' इत्यस्यासिद्धत्वादेत्वाभ्यासलोपौ स्व एवेति वाच्यम् , फलभजग्रहणेन एत्वविधि प्रति तत् सूत्रस्य सिद्धत्वज्ञापनात् । एवं चादेशश्चेह वैरूप्यसंपादक एव गृह्यत इति व्याख्यानमा