________________
प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [८३ मदि १३ स्तुतिमोदमदस्वमकान्तिगतिषु । मन्दते । ममन्दे। स्पदि १४ किञ्चिञ्चलने । स्पन्दते । पस्पन्दे। क्रिदि १५ परिदेवने। शोक इत्यर्थः । सकर्मकः । क्रिन्दते चैत्रम् । चिनिन्दे । मुद १६ हर्षे । मोदते । मुमुदे । दद १७ दाने । ददते । २२६३ न शसददवादिगुणानाम् । (६-४-१२६) शसेर्ददेवकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्यैत्वाभ्यासलोपौ न । दददे दददाते भदीति । कल्याणं शुभकिया, सुखं सुखीभावः । भन्दत इति । इदित्वान्नुम् । बभन्द इति । अभ्यासे भकारस्य जश्भावेन बकारः । मदीति । मोदः सन्तोषः। मदो गर्वः । मन्दत इति । इदित्त्वान्नुम् । ममन्द इति । नुमि सति संयुक्तहल. मध्यस्थत्वादेत्त्वाभ्यासलोपो नेति भावः । स्पदीति । अकर्मकः । स्पन्दत इति । इदित्त्वान्नुम् । पस्पन्द इति । 'शपूर्वाः खयः' इत्यभ्यासे पकारः शिष्यते। क्लिदीति । परिदेवनशब्दं व्याचष्टे शोक इति । स्मृत्वा क्लेशः शोकः, तदाह सकर्मक इति । क्लिन्दते चैत्रमिति । अतीतं चैत्रं स्मृत्वा क्लिश्नातीत्यर्थः । इदित्त्वान्नुम् । चिक्लिन्द इति । अभ्यासे ककारस्य चुत्वेन च इति भावः । मुदेति । हर्षस्तुष्टिः। मोदत इति । शपि लघूपधगुणः । मुमुद इति । 'असंयोगाल्लिकित्' इति कित्त्वान गुणः । ददेति । न ममेति त्यागो दानम् , न तु द्रव्यत्यागः, तथा सति धात्वर्थोपसंग्रहादकर्मकत्वापत्तेः । न शसदद । शस दद वादि गुण एषां द्वन्द्वः । अवयवषष्ठी । गुणशब्देन विहित एव गुणोऽत्र गुणशब्देन विवक्षितः, अन्यथा शसिददिग्रहणवैयर्थ्यात् । 'अत एकहलमध्ये-' इत्यस्माद् अत इति, 'ध्वसोरद्धौ-' इत्यत एदिति, अभ्यासलोप इति चानुवर्तते, तदाह शसेरित्यादिना । गुणशब्देनेति किम् ? पेचे। अत्र पचेरकारस्य गुणत्वेऽपि गुणशब्देन विहितत्वाभावान्नायं निषेधः । पृधातोः पपरतुरिति तु गुणस्योदाहरणम् , गुणशब्देन विहितो यः अर् तदवयवत्वादकारस्येति बोध्यम् । ददद इति । ददेलिटस्तादेशस्य एशि द्वित्वे 'अत एकहल्मध्ये-' इति प्राप्तावेत्त्वाभ्यासलोपौ न वश्यं कर्तव्यमेवेति दिक् । मदि स्तुतीति । मोदः संतोषः । मदो गर्वः । खप्न आलस्यम् । न शसदद । 'शसु हिंसायाम्' दन्त्यान्तः । सूत्रेऽवयवावयविभावः षटयर्थः। तथा च-शसददवादीनां योऽकार इत्यन्वयसंभवेऽपि अकारस्य गुणरूपत्वाद्भेदनिबन्धना षष्ठी न संभवतीत्याशङ्कय तन्निर्वाहार्थ व्याचष्टे गुणशब्देन भावितस्येति । भावितत्वं च साक्षात्परम्परासाधारणम् । तथा च शशरतुः पपरतुरित्यादौ गुणशब्देन क्रियमाणो योऽर् तदवयवोऽकारः । लुलवियेत्यादौ तु गुणशब्देन क्रियमाणो य श्रोकारस्तत्स्थानिकस्यावादेशस्यावयवोऽकार इत्यर्थानास्त्यत्रानुपपत्तिः ।
THEREFEREERH