________________
८४]
सिद्धान्तकौमुद्री। [ भ्वादिदददिरे । व्वद १८ स्वर्द १६ पास्वादने । अयमनुभवे सकर्मकः । रुचावकर्मकः । २२६४ धात्वादेः षः सः । (६-१-६४) धातोरादेः षस्य सः स्यात् । 'सात्पदायोः' (सू २१२३ ) इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे । उर्द २० माने क्रीडायां च । २२६५ उपधायां च । (८-२-७८) धातोरुपधाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । उर्दते । भवतः । ष्वद स्वर्देति । आस्वादनम् अनुभवः । प्रीतिविषयीभावात्मिका रुचिर्वा, तदाह अयमिति । प्रत्येकाभिप्रायमेकवचनम् । धात्वादेः। ष इति षष्ठयन्तम् , तदाह धातोरादेः षस्य सः स्यादिति । षकारस्य सः स्यादित्यर्थः । धातुग्रहणं किम् ? षट् । अत्र धात्वादित्वाभावान्न सकारः। आदिग्रहणं किम् ? लषति । न चैवममि षकारीयतीत्यादौ सुब्धात्वादेरपि षस्य सकारः स्यादिति वाच्यम् , 'आदेच उपदेशेऽशिति' इत्यत उपदेश इत्यनुवृत्तेः। एवं च षडित्यादावपि उपदेशग्रहणानुवृत्त्यैव व्यावृत्तिसिद्धेर्धातुग्रहणं भाष्ये प्रत्याख्यातम् । ननु धातुपाठे स्वद स्वर्देत्येवं सकार एव उपदिश्यताम् । एवं च 'धात्वादेः षः सः' इत्यपि मास्तु इति चेन्मैवम् , एयन्ताद् लुङि असिष्वददित्यत्र षकारश्रवणार्थकत्वाद् धातुपाठे सकारस्यैवोपदेशे तु असिष्वददित्यत्र सकारस्य आदेशसकारत्वाभावेन षत्वासंभवात् । नन्वेवं सति अनुस्वदंत इत्यत्रादेशसकारत्वात् षत्वापत्तिरित्यत आह सात्पदाद्योरिति । सस्वद इति । लिटि द्वित्वे संयुक्तहल्मध्यस्थत्वदित्वाभ्यासलोपो नेति भावः । उदेति । चकारादास्वादेनऽपीति केचित् । उपधायां च । 'सिपि धातो:-' इत्यतो धातोरिति, 'वोरुपाधायाः-' इत्यतोर्वोरिक इति, 'हलि च' इत्यतो हलीति चानुवर्तते। उपधयोरित्यर्थे उपधायामित्यार्षम् तदाह धातोरित्यादि। ऊदत इति । अत्र धातो रेफददद इति । शशसतुः । शशसुः । ववमतुः । ववमुरित्यादावपि निषेधो बोध्यः । प्वद स्वर्द । अयमिति । प्रत्येकाभिप्रायेणोक्तमित्याहुः । सकर्मक इति । खदख हव्यानि । हव्यान्यनुभवेत्यर्थः । अकर्मक इति । 'अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः खदते तुषारा' इति श्रीहर्षः । न खदते । न रोचत इत्यर्थः। धात्वादेः । धातुग्रहणं किम् , षट् षड् । आदेः किम् , लषति । उपधायां च । 'सिपि धातो:-' इत्यतो धातोरित्यनुवर्तते । वोरुपधायाः-' इत्यतो ोरिको दीर्घ इति। 'हलि च' इत्यतो हलीति च, तदाह धातोरित्यादि । धातोः किम् , 'ऊङ्गुतः । कुरूः कुरु कुर्व इत्यत्रंको दीर्घा मा भूत् । न चात्र रेफस्य प्रातिपदिकोपधात्वेऽपि पदोपधात्वाभावादेव दीर्घो न भवेदिति धातोरित्यनुवर्तनमिहानावश्यकमिति वाच्यम् , पदस्येत्यनुवृत्तौ तु कूदते खूर्दत इत्याद्यसिद्धिप्रसङ्गात् । वस्तुतस्तु पूर्वत्रासिद्धे न स्थानि