________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [८५ उदांचक्रे । कुर्द २१ खुर्द २२ गुर्द २३ गुद २४ क्रीडायामेव । कूदते । चुकू । खूर्दते । गूदते । गोदते । जुगुदे । षूद २५ चरणे । सूदते । सुषूदे। वान्तत्वाभावाद् र्वोरुपधायाः-' इत्यस्य 'हलि च' इत्यस्य चाप्राप्तौ उपधायां चेत्यारम्भः । धातोरित्यभावे पदाधिकारस्थत्वात् पदस्य उपधाभूतयोरित्यर्थः स्यात् । ततश्च क्विबन्ते ऊई इत्यत्रैव स्याद् ऊर्दत इत्यादौ न स्यात् । 'रफवकारेयोः' किम् ? पुष्यति । 'हलपरयोः किम् ? चिरिणोति । 'इकः' किम् ? नर्दति । ऊ चक्र इति । इजादित्वादाम् । 'कृञ्चानुप्रयुज्यते-' इत्यनुप्रयोगः। कुर्देति । गुदेत्यपि पृथग्धातुः । क्रीडायामेवेत्यर्थनिर्देशः। एवकारस्तु इतोऽन्यत्र धात्वर्थनिर्देशस्य उपलक्षणत्वं ज्ञापयति कूर्दत इति । 'उपधायां च' इति दीर्घः । चुकूर्द इति । 'कुहोश्चुः' इति चुत्वम् । खूर्दत इति । 'उपधायां च' इति दीर्घः । एवं गूर्दत इति। गोदत इति । शपि लघूपधगुणः । जुगुद इति । 'असंयोगात्-' इति कित्त्वान गुणः । देति । क्षरणं प्रस्रवणम् । सूदत इति । प्रस्रवतीत्यर्थः । 'धात्वादेः-' इति षस्य सः । अलघूपधत्वान गुणः । सुषूद इति । 'धात्वादेः-' इति षस्य सत्वे लिटि द्वित्वादौ इणः परस्यादेशसकारत्वात् षत्वम् । यदि धातुपाठे सकारस्यैव पाठः, तर्हि इहादेशसकारत्वाभावात् षत्वं न स्यात् । षोपदेशे तु षस्य सत्वे सति आदेशसकारत्वात् षत्वं सूपपादमिति भावः । ननु धातुपाठे के धातवः षादयः पठिताः, के वा सादयः, पाणिनिकृतषोपदेशपाठस्य इदानीं परिभ्रष्टत्वादित्याशङ्कय पाणिनीयपरम्परावदिति खीकाराद् 'अचः परस्मिन्-' इति स्थानिवत्त्वस्य निषेधाभ्युपगमेऽपि कार्यकालपक्षे 'असिद्ध बहिरङ्गम्-' इति परिभाषायाः प्रवृत्तेर्बहिरङ्गस्य यणोऽसिद्धत्वात् कुरु कुर्व इत्यत्र 'उपधायां च' इति दीर्घो न भवेदिति धातुग्रहणानुवर्तनस्य नात्यन्तावश्यकता, पदस्येत्यनुवृत्त्या कूर्दत इत्यादौ दीर्घः सिद्धयत्येवेत्याहुः । रेफवकारयोः किम् , 'पुष्प विकसने' पुष्प्यति। हल्पयोः किम् , चिरिणोति जिरिणोति । इकः किम् , अर्वते । नर्दति । ननु 'हलि च' इत्यत्र रेफवकारयोहैल्परयोरिको दीर्घः स्यादिति व्याख्यायां कूर्दते गूदते इत्यादि सिद्धयत्येवेति सूत्रमिदं व्यर्थमिति चेत् , अत्राहु:-'हलि च' इत्यत्र धातुग्रहणमनुवर्तनीयमेव, अन्यथा दिवमिच्छति दिव्यतीत्यादावतिप्रसङ्गः स्यात् । तथा च 'उपधायां च' इति सूत्राभावे उपधाभूतयोः र्वोः परतो दी? न स्यात् , किं तु रेफवान्तयोरेव धात्वोः 'हलि च' इति सूत्रेण स्यादित्येतत्सूत्रमावश्यकमेवेति । सूदत इति । स्रवतीत्यर्थः। ननु खदेतिवत् खद सूदेति दन्त्यादय एव धातवः पठ्यन्ताम् , षोपदेशान् पठित्वा सत्वविधौ गौरवात् । मैवम् , तथाहि सति एयन्ताचङि असिष्वदत् असू षुदत् इत्यादौ लिटि सुषूदे सिषेधेत्यादौ च 'आदेश.