________________
८६
सिद्धान्तकौमुदी। [ भ्वादि. सेक्सृप्सृस्तृसृजस्तृस्त्यान्ये दन्त्याजन्तषादयः ।
एकाचः षोपदेशाः स्युः ध्वस्विद्वद्वजस्वप्स्मिङः ॥ सिद्धान् षोपदेशान् पठति सेगिति श्लोकेन । दन्त्याजन्तषादय एकाचः षोपदेशाः स्युरित्यन्वयः । दन्त्यश्च अच्च दन्याचौ, तौ अन्तौ अव्यवहितपरौ यस्य स दन्त्याजन्तः, तथाविधः षः षकार आदियेषां ते दन्त्याजन्तषादयः। दन्त्यपरकः अच्परकश्च यः षकारः तदादय एकाचो धातव इदानीं कृतसत्वाः सकारादित्वेन परिदृश्यमाना अपि षकारादित्वेन पाणिनिना उपदिष्टाः प्रत्येतव्या इत्यर्थः । सादय इति पाठेऽप्येवमेव व्याख्येयम् । 'अज्दन्त्यपराः षादयः षोपदेशाः' इति भाष्यम् । षूद क्षरणे इत्यादयः श्रपरकषोपदेशाः । ष्टा गतिनिवृत्तावित्यादयस्तु दन्त्यपरकषोपदेशाः । ‘दन्त्याजन्त' इति किम् ? 'स्कुदि आप्रवणे'। चुस्कुन्दे। अत्र सकारो न दन्त्यपरकः नाप्यच्परकः । 'एकाचः' किम् ? सोसूश्यते । सूत्र वेष्टने, चुरादिरजन्तः अनेकाच् । यद्यप्येकाच इति भाष्ये न दृश्यते, तथापि यविधौ ‘सोसूच्यते' इति भाष्यं तत्र मानमिति बोध्यम् । एवं च 'साध संसिद्धौ' इत्यादौ सकारपाठस्यैव दृश्यमानत्वेऽपि षोपदेशत्वमेव । ननु 'सेक गती' 'सृप्लु गतौ' 'स गती' 'सृज विसर्गे' एते चत्वारः अच्परकसादयः । 'स्तृञ् आच्छादने', ऋदन्तः श्नुनिकरणः। 'स्तृञ् आच्छादने' ऋदन्तः नाविकरणः, 'स्त्यै शब्दसंघातयोः' एते त्रयो दन्त्यपरकसादयः । एतेषां सप्तानामपि षोपदेशत्वं स्यादित्यतिव्याप्तिमाशङ्कय तद्भिन्नत्वं विशेषणमाह सेक् सूप स स्तु सूज स्तृ स्त्यान्य इति । स्त्यैधातोः कृतात्वस्य निर्देशः श्लोके समावेशार्थः । स्त्यै इत्यकारान्तस्य निर्देश स्त्यायन्य इत्येकस्याक्षरस्याधिक्यापत्तः। नन्ववमपि 'ध्वष्क् गतौ' 'निविदा गात्रप्रस्रवणे' 'ध्वद आखादने' 'ध्वज परिष्वङ्गे' 'निष्वप् शये' 'मिल् ईषद्धसने' इत्येतेषु सकारस्य दन्त्यपरकत्वाभावाद् अच्परप्रत्यययोः' इति षत्वं न स्यात् । इणः परस्य सकारमात्रस्य षत्वविधौ तु सुपिसौ सुपिस इत्यादावपि स्यादिति धातुपाठे पाणिनिना तालव्यदन्त्यादिपाठवत् षोपदेशा अपि व्यवस्थयैव पठिताः, स च पाठ इदानी परिभ्रष्टः। साधादिषु सादिपाठस्यैव दृश्यमानत्वात् । अतो लक्षणमुखेन तान्व्यवस्थापयति सेगिस्यादि । दन्त्यश्च अच्च दन्त्याची तौ अन्तौ अव्यवहितपरौ यस्य स दन्त्याजन्तः, दन्त्याजन्तश्चासौ सश्च दन्त्याजन्तसः, स आदिर्येषां धातूनां ते दन्त्यान्तसादयोऽजन्तसादयश्चैकाचः षोपदेशा बोध्याः । तथा च साधादौ सांप्रतं पव्यमानः सकार उपदेशे न स्थित इत्यनुमेयमिति भावः । दन्त्येत्यादि किम , चुस्कुन्दे । एकाचः किम् , सोसूच्यते । सोसूच्यते । सुचिसूत्री चुरादा. वदन्तौ । उक्कलक्षणस्यातिव्याप्तिं वारयितुमाह सेगिति । 'सेक गतौ'। 'सृप्लु गतौ'।