________________
प्रकरणम् ४३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ८७
1
I
1
1
दन्त्यः केवलदन्त्यो न तु दन्तोष्ठजोऽपि । ष्वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् । ह्राद २६ अव्यक्ते शब्दे । ह्रादते । जहादे । ह्लादी २७ सुखे च । चादग्यक्ले शब्दे । ह्लादते । स्वाद २८ आस्वादने । स्वादते । पर्द २६ कुत्सिते शब्दे । पर्दते । यती ३० प्रयले । यतते । येते । युत ३१ जुतृ ३२ भासने । योतते । युयुते । जोतते । जुजुते । विधृ ३३ वेधृ ३४ याचने । विविथे । विवेथे । श्रथि ३५ शैथिल्ये । श्रन्थते । प्रथि ३६ कौटिल्ये । ग्रन्थते । कत्थ ३७ श्लाघायाम् । कत्वाभावाच्च षोपदेशेष्यसंग्रहः स्यादित्यव्याप्तिमाशङ्कय तानपि संगृह्णाति ष्वष्क् स्विद् स्वद् स्वञ्ज स्वप् स्मिङ इति । अपीति शेषः । ननु 'स्त्र शब्दोपतापयोः' इत्यादीनामपि दन्त्यवकार परकत्वात् षोपदेशत्वं स्यादित्यत श्राह दन्त्यः केवलदन्त्य इति । कुत इत्यत आह ष्वष्कादीनामिति । अन्यथा दन्त्यपरकत्वादेव सिद्धे ष्वष्कादिग्रहणं व्यर्थं स्यादिति भावः । यद्यपि ष्वष्कतिरत्र भाष्ये न दृश्यते तथापि 'सुब्धातुष्टियुष्वष्कतीनां सत्वप्रतिषेधः' इति वार्तिकात्तल्लाभ इति भावः । ह्रादेति । रेफवानयम् । अव्यक्तशब्दः श्रमनुष्यवाक् । जहाद इति । अभ्यासस्य ह्रस्वः, चुत्वम् । ह्वादीति । लकारवानयम् । 'वीदितो निष्टायाम्' इति इनिषेधार्थमीत्वम् । स्वादेति । केवल दन्त्यपरकत्वाभावान्नायं षोपदेशः । असिखदत् । पर्देति । गुदंरव इत्यर्थः । यतीति । ईदित्त्वमिरानषेधार्थम् । येत इति । 'अत एकहल्मध्ये -' इत्येत्वाभ्यासलोपौ । युतृ जुट इति । ऋदित्त्वं ‘नाग्लोपिशास्वृदिताम्' इत्याद्यर्थम् । योतत इति । शपि लघूपधगुणः । युयुत इति । 'असंयोगात् -' इति कित्त्वान्न गुणः । विधृ वेधृ इति । द्वितीयान्ताविमौ । ननु वियृ इत्येवास्तु, लघूपधगुणे सति वेथत इत्यस्याविशिष्टत्वादित्यत आह विविधे विवेथ इति । वेवृधातोर्विवेये इति रूपम् । विवृधातोस्तु 'असंयोगात् -' इति कित्त्वाद् गुणाभावे विविध इति रूपमिति भावः । श्रधीति । द्वितीयान्तः । शैथिल्यं स्रंसनम् । श्रन्थते इति इदित्त्वान्नुम् । ग्रथीति । द्वितीयान्तः । ‘सृ गतौ' । ‘स्तृञ् आच्छादने' । 'सृज विसर्गे' । 'स्तृञ् श्राच्छादने' । 'स्त्यै शब्दसंघातयोः' । एभ्योऽन्ये । पूर्वेस केषांचिदसंग्रहादाह ष्वष्केति । 'ध्वष्क गतौ' । 'ञिष्विदा गात्रप्रक्षरणे' । 'स्वद आस्वादने' । 'ष्वञ्ज परिष्वङ्गे' । ञिष्वप् शये । 'स्मिङ् ईषद्धसने' । एते षोपदेशा इत्यन्वयः । 'स्वाद प्रास्वादने' इत्यादावतिव्याप्तिमाशङ्कयाह दन्त्यः केवलदन्त्य इति । तथा च श्रसिखददित्यादौ षत्वं नेति भावः । ह्लादी सुखे च । चादव्यक्ते शब्दे । ईकारः 'श्वीदितो निष्ठायाम् ' इतीरिनषेधार्थः । १ अन्यत्र पुस्तकेषु मूल एवायं पाठो दृश्यते ।
I