Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 18
________________ प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१५ स्यात् । २१६४ अस्मद्युत्तमः । (१-४-१०७) तथाभूतेऽस्मद्युत्तमः स्यात् । २१६५ शेषे प्रथमः । (१-४-१०८) मध्यमोत्तमयोरविषये प्रथमः स्यात् । भू१ सत्तायाम् । कर्तृविवक्षायां भू ति इति स्थिते । २१६६ तिशित्सार्वधातुकम् । (३-४-११३ ) तिङः शितश्च धात्वधिकारोक्का एतत्संज्ञाः स्युः। २१६७ कर्तरि शप् । (३-१-६८) कथै सार्वधातुके परे धातोः शप वाक्यम् तद्याचष्टे मन्यतेस्तूत्तम, स्यादिति । 'यष्मद्युपपदे' इति शेषः, पूर्वसूत्रात्तदनुवृत्तेः । स चेति । स मन्यतेरुत्तमपुरुषो द्वित्वबहुत्वयोरपि एकवचनं लभते इत्यर्थः । मध्यमोत्तमयोर्व्यत्यासार्थमिदम् । एतत्सर्वमनुपदमेवोदाहरणे स्पष्टीभविष्यति । अस्मद्युत्तमः। तथाभूत इति । तिङ्वाच्यकारकवाचिनि प्रयुज्यमाने अप्रयुज्यमाने चेत्यर्थः । शेषे । उक्तान्मध्यमोत्तमविषयादन्यः शेषः, तदाह मध्यमोत्तमयोरविषय इति । त्वम् अहं च पचाव इत्यत्र तु परत्वादुत्तमपुरुष एव । न तु मध्यमः । देवदत्तस्त्वं च पचथ इत्यत्रापि न प्रथमपुरुषः । युष्मदस्सत्त्वेन शेषत्वाभावादित्यलम् । भू सत्तायामिति । वर्तत इति शेषः । भ्वादिगणे प्रथमो धातुरयम् । तत्र भू इत्येव गणे पाठः। अर्थनिर्देशस्त्वाधुनिक इति वक्ष्यते । यद्यपि सत्ता जातिः, न किया, तथापि अात्मधारणं सत्तेत्युच्यते । स्वरूपेणावस्थानमिति यावत् । कर्तविवक्षायामिति । वर्तमानसत्तावृत्तभूधातोः कर्तरि लटि आत्मनेपदनिमित्तहीनतया परस्मैपदे तिबादिनवके तत्रापि युष्मदस्मत्सामानाधिकरण्याभावात् प्रथमपुरुषत्रिके तत्रापि कर्तुरेकत्वविवक्षायां तिपि सति, भू ति इति स्थिते प्रक्रिया वक्ष्यत इत्यर्थः । तत्र सार्वधातुककार्य वक्ष्यन् सार्वधातुकसंज्ञामाह तिशित् । 'धातोः' इत्यधिकृतम् , तदाह धात्वधिकारोक्ता इति । तेन हरीनित्यत्र शसः सार्वधातुकत्वं न । अन्यथा 'तिशित्सार्वधातुकम्' इति शसः सार्वधातुकत्वात् सार्वधातुकमपिदिति कित्त्वे 'डिति' इति गुणः स्यात् । कर्तरि शप् । 'सार्वधातुके यक्' इत्यस्मात् सार्वधातुक इत्यनुवर्तते । 'धातोरेकाचो हलादेः-' इत्यस्माद्धातोरिति । तदाह कर्बर्थ इत्यादिना । तिङि परे धातोविहिताना प्रत्ययानां शबादीनां विकरणसंज्ञा प्राचीइत्यर्थः । तथाभूत इति । तिब्वाच्यकारकवाचिनि प्रयुज्यमानेऽप्रयुज्यमाने चेत्यर्थः। तिशित् । धात्वधिकारोक्ता इति किम् , हरीन् । शसः 'सार्वधातुकमपित्' इति डित्त्वे 'घेडिति' इति गुणः स्यात् , लिहः श्रिय इत्यादिशसन्तेषु 'सार्वधातुके यक्' इति यक् च स्यात् । केचितु वारिणीत्यत्र नुमि कृतेऽपि लघूपधगुणः स्यादित्याहुः । तक, विन्तीति निषेधात् , इगन्तत्यप्रयुक्तस्य नुमो गुणप्रयोजकत्वे सन्निपातपरिभाषाविरोधाच्च । कर्तरि शप् । 'सार्वधातुके यक्' इत्यतः सार्वधातुक इत्यनुवर्तते, 'धातो.

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 714