Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd
View full book text ________________
प्रकरणम् ४३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [१३ क्रमादेतत्संज्ञाः स्युः । २१६१ तान्येकवचन द्विवचनबहुवचनान्येकशः। (१-४-१०२) बग्धप्रथमादिसंज्ञानि तिङनीणि त्रीणि वचनानि प्रत्येकमेकचानुवृत्तं षष्टयन्ततया विपरिणम्यते। ततश्च परस्मैपदात्मनेपदयोरुभयोरपि प्रत्येक त्रयस्त्रिकाः सन्तीति यथासंख्यं प्रथमादिसंज्ञाः प्रवर्तन्त इति भावः । प्रथमादिषु पुरुषसंज्ञा तु प्राचीनाचार्यशास्त्रसिद्धति बोध्यम् । अथ प्रथमादिपुरुषेषु एकैकस्मिन् पुरुषे प्रत्ययत्रिकात्मके युगपत् पर्यायेण वा एकैकप्रत्यये प्राप्ते 'येकयोर्द्विवचनैकवचने' 'बहुषु बहुवचनम्' इति व्यवस्थार्थमेकवचनादिसंज्ञामाह तान्येक । तच्छब्देन पूर्वसूत्रोपात्तानि प्रथममध्यमोत्तमाख्यानि तिङस्त्रीणि त्रीणि परामृश्यन्ते, तदाह लब्ध प्रथमादिसंज्ञानीति । एकश इत्यस्य विवरणं प्रत्येकमिति। 'संख्यैकवचनाच्च तेन पदद्वये प्रत्येयं त्रयस्त्रिका इति यथासंख्यं संज्ञाः प्रवर्तन्त इति भावः । ननु प्रथमश्च प्रथमश्च प्रथमौ, मध्यमश्च मध्यमश्च मध्यमावित्येवं कृतैकशेषाणां प्रथमादीनां प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमा इति द्वन्द्वेऽभ्युपगते त्रिकद्वयस्य त्रिकद्वयस्य यथासंख्यं प्रथममध्यमोत्तमसंज्ञाः स्युन त्वेकैकस्येति । एवं 'गलुत्तमो वा' इति सूत्रं विरुध्येत णल उत्तमसंज्ञकत्वालाभात् , ततश्च प्रथममध्यमोत्तमा इत्यत्र कृतद्वन्द्वानां प्रथममध्यमोत्तमाश्च प्रथममध्यमोत्तमाश्चेत्येकशेष प्राश्रीयताम् , तथा हि सति संज्ञा अपि षडिति परस्मैपदात्मनेपदग्रहणानुवृत्तिक्लेशं विनैवेष्टसिद्धिरिति चेत् । मैवम् , एकशेषाश्रयणे गौरवाद्वैयर्थ्याच्च त्वयापि परस्मैपदात्मनेपदग्रहणमनुवर्त्यमेव । अन्यथा शतृकखोः सावकाशा परस्मैपदसंज्ञा प्रथमादिसंज्ञया बाध्येत । ततश्च काम्यति कामती. त्यादौ 'क्रमः परस्मैपदेषु' इति दी| न स्यात् । आक्रामन्नित्यादौ तस्य सावकाशत्वात् । यदि तु 'परस्मैपदानाम्-' इति विहितस्य लो 'णलुत्तमो वा' इति णित्त्वविकल्पविधानाज्ज्ञापकात्परस्मैपदसंज्ञा प्रथमादिसंज्ञया न बाध्यत इति ब्रूषे, तर्हि सुतरां प्रतिपत्तिगौरवम् । तान्येकवचन । तानीत्यस्य व्याख्यानं तु लब्धेत्यादि । अन्यथैकसंज्ञाधिकारात्प्रथमादिसंज्ञानामेकवचनादिसंज्ञानां च पर्यायः स्यात् । इष्टापत्तौ तु अत्तेर्लोटो 'मेनिः' इति कृते एकत्वविवक्षायामुत्तमसंज्ञाभावाद् ‘आडुत्तमस्य-' इत्यस्याप्रवृत्त्या आन्नीत्यादिप्रयोगोऽपि साधुः स्यादिति भावः । प्रत्येकमिति । यत्तु प्राचा एकैकश इत्युक्तं तदयुक्तम् । शसैव वीप्साया उक्तत्वेन द्विवचनायोगात्, येन नाप्राप्तिन्यायेन द्विवचनापवादः शसिति सिद्धान्तात् । तथा 'सुपः' इति सूत्रेऽप्येकैकश इति प्राचोक्तमयुक्तमेव । एतच्च मनोरमाग्रन्थानुरोधेनोक्तम् । अन्ये तु एकैकमेवैकैकशः स्वार्थे शस् , न त्वत्र वीप्सायाम् । न च स्वार्थे यः शस् स ाकरग्रन्थानावगम्यत इति वाच्यम् , एकां कपिलामेकैकशः सहस्रकृत्वो दत्त्वेति भाष्यात् शसन्तस्य प्रत्येकमित्यर्थ
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 714