________________
१०] सिद्धान्तकौमुदी।
[ भ्वादि. स्तातांझथासाथांध्वमिड्वहिमहिङ्। ( ३-४-७८) एतेऽष्टादश लादेशाः स्थुः । २१५५ लः परस्मैपदम् । (१-४-६६) लादेशाः परस्मैपदसंज्ञाः स्युः। २१५६ तङानावात्मनेपदम् । (१-४-१००) तङ् प्रत्याहारःतादिनवकं शानच्कानचौ चैतत्संज्ञानि स्युः । पूर्वसंज्ञापवादः । २१५७ अनुदात्तङित आत्मनेपदम् । (१-३-१२) अनुदात्तेत उपदेशे यो ङित् वस् , मस, त, आताम् , झ, थास् , अाथाम् , ध्वम् , इट्, वहि, महिङ् । एषां समाहारद्वन्द्वात् प्रथमैकवचनम् । 'लस्य' इति स्थानषष्टयन्तमधिकृतम् । तेन आदेश इति लभ्यते। फलितमाह एत इति । तसादौ रुत्वाभाव आर्षः । तिबादौ पकारानुबन्धयोजनं तु द्वेष्टीत्यादौ सार्वधातुकमपिदिति छित्त्वनिवृत्त्यर्थम् । तदुदाहरणेषु स्पष्टीभविष्यति । लः पर । 'लः' इति स्थानषष्ठी । आदेश इत्यध्याहार्यम् । तदाह लादेशा इति । तङानौ। तङ् च आनश्चेति द्वन्द्वः। प्रत्याहार इति । त आतामिति तशब्दमारभ्य महिङिति ङकारेणेति शेषः, तदाह तादिनवकमिति । इह पूर्वसूत्राल्ल इत्यनुवर्तते। ततश्च प्रानग्रहणेन शानच्कानचावेव गृह्यते । न तु 'ताच्छील्यवयोवचनशक्तिषु चानश्' इति विहितश्चानशपि, तस्य लादेशत्वाभावात् । तेन परस्मैपदिभ्योऽपि चानश् सिध्यति निम्नाना इत्यादौ । तदाह शानच्कानचौ चेति । एतत्संज्ञानीति । आत्मनेपदसंज्ञकानीत्यर्थः। पूर्वसंक्षेति । परस्मैपदसंज्ञापवाद इत्यर्थः । एवं च तिबादिनवके परस्मैपदसंज्ञा पर्यवस्यति । अथ कस्माद्धातोः परस्मैपदम् , कस्मादात्मनेपदमित्याकाङ्क्षायामाह अनुदात्तङितः । एधेमहीत्यत्रापि स्यात् , वर्णग्रहणे प्रत्ययग्रहणार्थवद्ग्रहणपरिभाषयोरप्रवृत्तेः । केचित्तु-'इटोऽत्' इत्यत्र लिङ इत्यनुवर्तनाल्लिकादेशस्येवर्णस्येति सामानाधिकरण्येन व्याख्याने एधेवहि एधेमहीत्यादावतिप्रसङ्गो नास्त्येव । न हि तत्र र कारमात्रमादेशो भवति । तेन 'इटोऽत्' इत्यत्र टकारः स्पष्टप्रतिपत्त्यर्थ एवेत्याहुः । तच्चिन्त्यम् , इकारस्य विशेषणत्वे विशेषणेन तदन्तग्रहणादिवर्णान्तस्य लिङोत्स्यादित्यर्थप्रसक्तया उक्तातिप्रसङ्गस्य तदवस्थत्वात् , वहिमहीत्य स्यापि स्थानिवत्त्वेन लिड़त्वात् । महिडो कारस्तङ् तिङिति प्रत्यहारार्थः । स च समुदायानुबन्धो न त्ववयवानुबन्धो व्याख्यानात् । तेनेषेः कर्मणि प्राशीलिङि एषिषीमहीत्यत्र गुणनिषेधो न, तथा च वृश्चतेः पृच्छतेश्च कर्मणि लिटि च ववश्चिमहे पच्छिमहे इत्यत्र 'अहिज्या-' इति संप्रसारणं न । तङानी । लस्येत्यस्यानुवृत्तेर्लादेश एवानो गृह्यते इत्याशयेनाह शानच्कानचौ चेति । तेन परस्मैपदिभ्योऽपि 'ताच्छील्यवयोवचन-' इति चानश् भवत्येव, कतीह निनानाः । अनुदात्तङितः । अनुदात्तश्च ङश्च अनुदात्तडौ, तौ