________________
प्रकरणम् ४३] बालमनोरमा-तत्त्वबोधिनीसहिता। [११ तदन्ताश्च धातोर्लस्य स्थाने प्रात्मनेपदं स्यात् । २१५८ स्वरितत्रितः कत्रभिअनुदात्तश्च च अनुदात्तडौ, तावितौ यस्य सः अनुदात्तडित् , तस्माद् अनुदात्तडितः । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं सम्बध्यते, अनुदात्तेतो तिश्चति लभ्यते । 'उपदेशेऽजनुनासिक इत्' इत्यस्माद् मण्डूकप्लुत्या 'उपदेशे' इत्यनुवृत्तं डितः' इत्यनेन सम्बध्यते, न तु 'अनुदात्तेत' इत्यनेन । उपदेशादन्यत्र अनुदात्तस्येसंज्ञाया अप्रसक्तत्वेनाव्यभिचारात् । 'भूवादयो धातवः' इत्यस्मान्मण्डूकप्लुत्या 'धातवः' इत्यनुवृत्तं पञ्चम्या विपरिणतम् अनुदात्तेता डिताच विशेष्यते। तत्रानुदात्तदंशे तदन्तविधेः प्रयोजनाभावाद् दिंशे तदन्तविधिः। तदाह अनुदात्तेत इत्यादिना । लस्य स्थान इति । आत्मनेपदग्रहणलभ्यमिदम् , तिहां लादेशत्वनियमात् । 'उपदेशे' किम् ? चुकुटिषति। अत्र 'गाङ्कुटादिभ्यः-' इति सन आतिदेशिकमेव इतौ यस्य सोऽनुदात्तङित् । द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं संबध्यते । तत्रानु. दात्तांशे तदन्तविधेः फलाभावाद् अंशान्तर एव तदन्तग्रहणमित्याशयेनाह अनुदात्तेत इत्यादि । 'उपदेशेऽजनुनासिक-' इत्यतोऽनुवृत्तमुपदेशग्रहणमपि डिदंश एव संबध्यते नान्यत्र, अव्यभिचारात्तदाह उपदेशे यो डिदिति । विशेष्यमन्तरेण तदन्तविधिरिह दुर्लभ इत्यत आह धातोरिति । लस्येति । नन्विहानुवृत्तेरभावादु. भयमपि दुर्लभं 'भूवादयः' इति सूत्रान्मण्डूकप्लुत्यानुवृत्तस्य धातव इत्यस्य विभक्तिविपरिणामात्कथंचिद्धातोरिति पदे लब्धेऽपि लस्येत्येतन्न लभ्यत इति चेत् । अत्राहुः-'इको भाल' इत्यत्र सना धातोरिवेहात्मनेपदेन लकारधात्वोराक्षेपो बोध्यः, तिङा लादेशत्वाल्लस्य च धातोर्विधानादिति। उपदेशे इति किम् , चुकुटिषति । 'गाङ्कुटादिभ्यः-' इति सन प्रातिदेशिकं ङित्त्वम् । धातोः किम् , चङभ्यां माभूत् , अदुद्रुवत् , अवोचत् । ननु लावस्थायामेव वृतादिभ्यः 'स्यतासी-' इत्या. दिना स्यप्रत्यये कृते व्यवधानादात्मनेपदपरस्मैपदरूपनियमाप्रवृत्तावपि लकारसामान्याश्रयत्वेनान्तरङ्गत्वात्स्यप्रत्ययात्पूर्वमेव लस्य तिबादिषु सत्सु पक्षे परस्मैपदं पक्षे चात्मनेपदं सिध्यत्येवेति 'वृद्भ्यः स्यसनोः' इति सूत्रे स्यग्रहणं व्यर्थ सत् तेनैव स्यग्रहणेन "विकरणेभ्यो नियमो बलीयान्' इति ज्ञापितम् । तेनानुदात्तेत्त्वावर्तिष्यत इत्येवं नित्यमात्मनेपदे प्राप्ते 'वृद्भ्यः स्यसनोः' इति परस्यैपदमपि पक्षे भवति । तथा च विकरणोभ्यो नियमस्य बलीयस्त्वाचङडोर्न दोषो विकरणात्प्रागेवपरस्मैपदप्रवृत्तेरिति चेत्। सत्यम्, स्यग्रहणं विकरणव्यवधानेऽपि नियमप्रवृत्तिं ज्ञापयतीति पक्षे चन्डोर्दोषः स्यादेव । अयं च पक्षः 'शदेः शितः' इति सूत्रे भाष्यकैयटयोः स्पष्टः । किं च तदन्तविधिलाभार्थमपि धातुग्रहणमावश्यकम् , तत्फलं तु 'धातोरेकाच-' इत्यादिना यङि बोभूयते । ऋतेरीयङि ऋतीयते। शेते हते इत्यत्र