________________
१२ ] सिद्धान्तकौमुदी। [भ्वादिप्राये क्रियाफले । (१-३-७२) स्वरितेतो जित धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले । २१५६ शेषात्कर्तरि परस्मैपदम् । (१-३-७८) श्रात्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् । २१६० तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः। (१-४-१०१) तिङ उभयोः पदयोस्त्रयस्त्रिकाः ङित्त्वम् , नत्वौपदेशिकम् । 'धातोः' किम् ? अदुटुवत् । अत्र णि श्रीति चङन्तान्नात्मनेपदम् । ङिदंशे तदन्तविध्यभावे तु बोभूयत इत्यादौ सनायन्ताः-' इति धातुसंज्ञकाद् यन्तादात्मनेपदं न स्यात् । ङित इत्येवोक्लो यो ङित्त्वेऽपि तदन्तस्य धातोङित्त्वाभावादात्मनेपदं न स्यात्। स्वरितत्रितः । स्वरितश्च च स्वरि तनौ, तौ इतौ यस्य तस्मादिति बहुव्रीहिः । इच्छब्दः प्रत्येकं सम्बध्यते । तदाह स्वरितेतो जितश्चेति । धातोरियनन्तरं लस्य स्थान इति शेषः । कर्तारमभिप्रेति गच्छ नीति कर्बभिप्रायम् । कर्मण्यम् । तदाह कर्तृगामिनीति । एवं च होता याज्यया यजति, इत्यादौ याग. फलस्य स्वर्गस्य यजमानगामित्वेन होतृगामित्वाभावाद् नात्मनेपदम् । तथा वेतनेन यज्ञदत्तभृतो देवदत्तः पचतीत्यत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वाभावान्नात्मनेपदम् । दक्षिणादिलाभस्तु न फलम् , लोकतो वेदतो वा यदुद्देशेन क्रियाप्रवृत्तिः तस्येवात्र क्रियाफलशब्देन विवक्षितत्वात् । कर्तृगामिफलकक्रियावत्तेर्धातो रेत्यर्थः । आत्मनेपदं तु धात्वर्थफलस्य कर्तृगामित्वं द्योतयतीत्यलम् । शेषात्कर्तरि। ":अनुदात्तङित-' इति 'स्वरितभित-' इति चोक्ताइ आत्मनेपदविषयादन्यः शेषः, तदाह आत्मनेपदनिमित्त. हीनादिति । अनेन भूधातोः कर्तरि लस्य परस्मैपदं सिद्धम् । तत्र तिबादिनवके युगपत् पर्यायेण एकद्वित्रादिकतिपयरूपेण वा प्राप्ते 'युष्मद्युपा दे समानाधिकरणे स्थानिन्यपि मध्यमः' 'अस्मद्युत्तमः' 'शेषे प्रथमः' इति व्यवस्था दयन् प्रथमादिसंज्ञा तावदाह तिङस्त्रीणि त्रीणि । तिङः षट् त्रिकाः, संज्ञास्तु तिला इति यथासंख्यासम्भवादेकैकस्य त्रिकस्य तिसृषु संज्ञासु प्राप्तास्वाह तिङ उभयोः पदयोरिति । 'लः परस्मैपदम्' इत्यतः परस्मैपदमिति, 'तङानावात्मनेपदम्' इल त आत्मनेपदमिति तु व्यपदेशिवद्भावेन दिन्तत्वम् । 'नमोवरिवश्वित्रङ:-' इति क्यचि चित्रीयते इत्येतत्कथमिति चेत , अत्राहुः-अवयवेऽचरितार्थों डकारः क्यजन्तस्य विशेषणं भवति । तथा च समुदायानुबन्धो ङकार इति व्यपदेशिवद्भावना ङिदन्तत्वं बोध्यमिति । स्वरितत्रितः । पूर्ववदिच्छब्दः प्रत्येकं संबध्यते । कर्तारमभिप्रेति गच्छतीति कभिप्रायम् , कर्मण्यण । धातोरिति । धातोर्लस्येत्यर्थः । लकारधात्वोराक्षपः पूर्ववद्वोभ्यः । तिङस्त्रीणि त्रीणि । तिङः षट् त्रिकाः संज्ञास्तु तिस्र इति यथासंख्यं न प्राप्नोतीत्यत आह उभयोरिति । परस्मैपदमात्मनेपमिति चानुवर्तते ।