Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 11
________________ सिद्धान्तकौमुदी। [ भ्वादि. तविधावं ज्यायः' इति न्यायात् , न तु शत्रादिषु । स्थानिस्तलकारार्थेनैवैतेषां निराकाङ्क्षत्वात् , अन्यथा भावे कमणि च शानचो दौलेभ्यापत्तः । ततश्च शय्यमाने आस्यमाने चायं गत इत्यादिप्रयोगो भावे न स्यात् । कर्मणि तु क्रियमाण इत्यादिप्रयोगो न स्यात् । यत्तु भट्टपादा आहुः-कर्तरि यदेकत्वं तत्र तिम्, कर्तरि यद् द्वित्वं तत्र तम् , इत्यादिक्रमेण 'लः कर्मणि-' इत्यस्य 'यकयोः-' इत्यादेश्चैकवाक्यतया व्याख्यानान कर्तृवाच्यता सूत्रादायातीति । तच्चिन्त्यम्, 'तान्येकवचन द्विवचन-' इति विहितद्विवचनादिसंज्ञा हि तिवाद्यादेशनिष्ठा । ततश्च द्विवचनादिसंज्ञकतिबादिविधिना 'द्ववेकयोः-' इत्यस्यैकवाक्यताऽस्तु । न च तिबादिविधौ कर्तरीत्यति, यद् द्वित्वैकत्वादिविशेषणतया कथंचिक्रीयेत। ननु 'लः कर्मणि-' इति सूत्रे ‘कर्तरि कृत्' इत्यतोऽनुवृत्तं कर्तृग्रहणं तिबादिविधावस्त्येव, लविधितिबादिविध्योरप्येकवाक्यतास्वीकारादिति चेत् । सत्यम् , वाक्यैकवाक्यता हि सा, न तु पदैकवाक्यता, 'लः कर्मणि-' इति विहितलकारानुवादेन तिबाद्यादेशविधेः प्रवृत्तत्वात् । तथा च लविधौ श्रयमाणं कर्तृग्रहणं कथं संख्यां विशिनष्टु । न हि यत्र कर्तृग्रहणं तत्र संख्योपस्थापकमस्ति, लकारस्य द्विवचनादिसंज्ञाविनिर्मुक्तत्वात् । ततश्च 'कर्तरि यदेकत्वम्' इति व्याख्या कथमपि न संभवत्येव । स्यादेतत् , 'लः कर्मणि' इति सूत्रे ल इत्यकारानुबन्धकयो. लङ्लटोः सामान्यग्रहणं न भवति किंतू सृष्टानुबन्धकलकाराणां सामान्यग्रहणमिति निर्विवादम् । तत्र 'लः' इति जसन्तं मा भूत् किंतु ङसन्तमस्तु 'लः परस्मैपदम्' इतिवदादेशापेक्षा चेयं षष्ठी, लस्य य आदेशः स कमणि चेत्यादि । न चाविहितस्य लस्यानुवादो न संभवतीति वाच्यम् , 'वर्तमाने लट्' इत्यादिभिव लविधानात् । तथा च लस्य स्याने य आदेशः स सकमेकात्कर्मणि कर्तरि च स्यादकर्मकाद्भावे कर्तरि चेत्यर्थः सुलभ इति भट्टपादोक्तयोजनिका निधिवेति चेत् । अत्राहुः-ल इत्यस्य षष्टयन्तत्वे आदेशानामेवार्थ उक्तः स्यात् । सोऽपि तिवादीनामेव न तु शत्रादीनाम् , तेषां द्विवचनादिसंज्ञाविरहात् । 'द्वयेकयोः-' इत्यादिनाऽस्यैकवाक्यताया भवद्भिरुतत्वात्। न च भवदुक्तरीत्या 'कर्तरि कृत्' इत्यनेनैव निर्वाहः, भावे कर्मणि च शानचो दौलभ्यापत्तेरुतत्वात् । न च शानज्विधिना सहात्मनेपदव्यवस्थापकानामेकवाक्यतया 'भावकर्मणोः' इत्यनेनेष्टसिद्धिः, सकर्मकादपि भावे शानजापत्तेः। किञ्च, जसन्तत्वे श्रुतेनैव संबन्धः, षष्ठयन्तत्वे त्वादेश इत्यध्याहारागौरवमित्यादि । अत्रेदं बोध्यम्'भावे चाकर्मकेभ्यः' इत्यकर्मकग्रहणेनाविवक्षितकर्माणोऽपि गृह्यन्ते। अत एव 'णेरणौ-' इति सूत्रे 'नेह पच्यते, नेह भुज्यते' इति भावे लकार इति हरदतः । अत्यन्ताविद्यमानकर्मकाणामेव ग्रहणम् , 'नेह पच्यते' इत्यादौ तु कर्मण्येव लकारः । गम्यमान

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 714