Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 9
________________ सिद्धान्तकौमुदी। [ स्वादि तस्यावश्यकतया ज्ञापकानुसरणक्लेशस्य वैयर्थ्यात् । तस्माद्यथा यासमेव रमणीयम् । अत्र नैयायिकाः-'लकाराणां कृतावेव शक्तिबघवान तु कर्तरि कृतिमतः कर्तृत्वेन तत्र शक्तौ गौरवात् , देवदत्त इत्यादिप्रथमान्तपदेन तल्लाभाच । देवदत्तः पचतीत्यत्र हि देवदत्तो विशेष्यः, यत्नो विशेषणम् , आश्रयत्वं तु ससर्गः । तथ च पाकानुकूलकृत्याश्रयो देवदत्त इत्यादिशाब्दबोधोऽपि सुष्टुपपद्यते' इति । तन्न, पचतीत्युक्ते पाककर्ता क इत्याकाङ्क्षानुरोधेन लकाराणां कर्तरि शक्तिरित्यभ्युपगन्तुमुचितत्वात् । पाकानुकूला कृतिरिति शाब्दबोधाभ्युपगमे तु कस्मिन्नित्याकाङ्क्षा स्यात् , कस्येति वा । न चैककर्तृका पचिक्रियेति शाब्दबोधाभ्युपगमेऽपि क इत्या काक्षा नोपपद्यत एवेति शङ्कयम् , कर्तृसामान्यबोधे सति क इति कर्तृविशेषाकाङ्क्षायां बाधकाभावात् । नापि देवदत्तकर्तृका पचिक्रियेत्युलेऽपि कस्मिन्नस्ति कस्य वेत्याकाक्षा दुर्वारैवेति शङ्कयम् , विक्लित्त्यनुकूलव्यापारस्यैव पचिकियात्वात् तदाश्रयस्य देवदत्तस्य कर्तृत्वात् क्रियाश्रयत्वे निश्चिते कस्मिन्नित्याकाङ्क्षाया अप्रवृत्तेः । किंच पचन्तं देवदत्तं पश्य, ८ चते दवदत्ताय देहि, पचमानस्य देवदत्तस्य द्रव्यम् इत्यादौ शर्तृशानजादीनामपि तिब दिवल्लादेशत्वाविशेषेण तेभ्योऽपि कृतिमात्रबोधापत्तेः । न चेष्टापत्तिः, श्राश्रयत्वं संसर्ग इत्युक्तत्वेन पाकानुकूलकृत्याश्रयं देवदत्तं पश्येत्याद्यर्थस्वीकारे दोषाभावादिति वाच्यम् , नामार्थयोर्भेदान्वयस्य स्वपरसिद्धान्तविरुद्धत्वात् । न चैवं नामार्थयोरभेदसंसर्गव्युत्पयनुरोधेन शतृशानजादीनां कर्तरि शक्तिस्तिबादीनां तु कृतावेवेति वैषम्यं स्वीक्रियते, प्रामाणिकगौरवस्यादोषत्वादिति वाच्यम् , स्थान्येव वाचको लाघवान्न त्वादेशो गौरवादिति स्वसिद्धान्तस्य परित्यागापत्तेः । रामः, ज्ञानम् , कतरत् , इत्यादी सोर्विसर्गे से रमि सोरदडि च कृते लाघवात्सुत्वेनैव शक्तिर्न तु तत्तद्रूपेणेत्यादिभवदीयव्यवहारस्यासांगत्यापत्तेश्च । एवं च तिबादीनां शत्रादीनां च स्मारकतया लिपिस्थानीयत्वम् , बोधकस्तु लकार एवेति स्थितम्। सत्र शत्राद्यन्ते कर्तरि शक्त इत्यभ्युपगमे तिङन्ते कथं कृति बोधरीत्। 'अन्यायश्चानेकार्थत्वम्' इति न्यायात् । यदि तु वैयाकरणरीतिमाश्रित्य सर्वत्रादेशा एव वाचका इत्याद्य भ्युपगम्यते, तर्हि घटम् , घटेन, हरेऽव, विष्णोऽवेत्यादिषु 'सर्व सर्वपदादेशाः-' इति न्यायेन पदस्फोटो वाक्यस्फोटश्च सिध्यदिति भवतां तन्महदेवानिष्टम् । किं च 'कर्तरि कृत्' इति यत्कर्तृग्रहणं तदेव 'लः कर्मणि-' इति सूत्रे चकारेणानुकृष्यत इति कथं एबुलादीनां लकाराणां च शक्ती वैलक्षण्यम् । न च नामार्थयोर भदान्वयसंसर्गाभ्युपगम एव एबुलादौ कर्तुर्वाच्यत्वे बीजमिति वाच्यम् , पचतिरूपं पनतिकल्पं देवदत्त इत्याधनुरोधेन तिक्ष्वपि कतुरेव वाच्यतौचित्यात् । ननु समुदायस्य नामत्वेऽपि तिङप्रत्ययो न नामेति चेत्पाचक इत्यत्राप्यक इत्येतन्न नामेति तुल्यम्। अकान्तं नामेति चेद् रूपबाद्यन्त.

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 714