Book Title: Laghu Siddhant Kaumudi Part 03 Author(s): Girdhar Sharma, Parmeshwaranand Sharma Publisher: Motilal Banrassidas Pvt Ltd View full book textPage 6
________________ प्रकरणम् ४३] बालमनोरमा तत्त्वबोधिनीसहिता। [३ पूर्वार्धे कथितास्तुर्यपञ्चमाध्यायवर्तिनः । प्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः ॥२॥ अचिन्त्यजगद्रचनाद्यनन्तगुणसम्पन्नतया भृशङ्कीय॑मानोऽपीति यावत् । अगुण इति। निर्गुण इत्यर्थः । 'साक्षी चेता केवलो निर्गुणश्च' इत्यादिश्रुतेरिति भावः । निर्गुणस्य गुणवत्त्वेन कथनात्मिका स्तुतिविरुद्धेत्यापातप्रतिपन्नं विरोधमपिशब्दो द्योतयति । गुणानां व्यावहारिकसत्यत्वेऽपि पारमार्थिकत्वाभावान्न विरोध इत्युत्तरमीमांसायां स्पष्टम् । विभुरिति । सर्वव्यापकः परमेश्वर इत्यर्थः । विजयतेतरामिति । 'जि जये' अकर्मकः । उत्कर्षेण वर्तनं जयः । 'विपराभ्यां जेः' इत्यात्मनेपदम् । 'तिश्च' इत्यतिशायने तरप् । 'किमेत्तिङव्यय-' इति तरबन्तात् खार्थे अाम्प्रत्ययः । 'तद्धिश्वासर्वविभक्तिः' इत्यत्र तसिलादिषु परिगणनादामन्तमव्ययम् । सर्वोत्कर्षण वर्तत इत्यर्थः । न च विजयते इति समुदायस्यातिङन्तत्वात् कथं ततस्तरविति वाच्यम् । वि इति हि भिन्नं पदम् , तिङन्तोत्तरपदसमासस्य छन्दोमात्रविषयत्वात् । ततश्च जयत इत्यस्मादेव तरप् । न च जयत इत्यस्य 'विपराभ्यां जेः' इति कृतात्मनेपदस्य विशब्दसापेक्षत्वादसामर्थ्य शङ्कयम् । वीत्युपसर्गस्य द्योतकत्वेन पृथगर्थविहीनतया तत्सापेक्षत्वाभावात् तिङन्तस्य प्रधानतया तस्य विशब्दापेक्षत्वेऽपि बाधकाभावाचेत्यलम् । वृत्तकथनपूर्वकं वर्तिष्यमाणनिरूपणं प्रतिजानीते पूर्वार्ध इति । तुर्यश्चतुर्थः । 'चतुरश्छयतावाद्यक्षरलोपश्च' इति चतुरशब्दाद्यत्प्रत्ययः, प्रकृतेश्चकाराकारसंघातलोपश्च । पूर्वार्ध चतुर्थपञ्चमाध्यायवर्तिनः प्रत्ययाः कथिता इत्यन्वयः। 'स्पृशोऽनुदक क्विन्' इत्यादितार्तीयीककतिपयप्रत्ययोपन्यासस्तु प्रासङ्गिक इति भावः । अथेति । स्यादेवेति वाच्यम् , स च छन्दस्येवेति तत्रत्यग्रन्थेन सह विरोधापत्तेः । किं च प्रातिपदिकत्वाभ्युपगमे सोरुत्पत्तिः स्यात् , लिङ्गसर्वनामताभ्युपगमेन नपुंसकत्वात्सोलुक्यपि 'ह्रस्वो नपुंसके-' इति ह्रखो दुर्वारः स्यात् । समुदायान्तर्गतस्य 'जयते' इत्यस्य तिङन्तत्वेऽपि विशब्देन साकाङ्गत्वेनासामर्थ्यात्ततोऽपि भवितुं नार्हति। समर्थः पदविधिः' इति परिभाषितत्वात् । 'आमन्तेन विशब्दो युज्यते' इति कल्पनायां त्वन्तरणत्वात् परस्मैपदप्रवृत्तौ विजयतितरामिति स्यादिति चेत् । अत्राहुः-समुदायान्तर्गताजयत इत्यस्मादेव तरप् । न च तस्य विशब्देन सह साकासत्वेनासामर्थ्य शङ्कयम् , तिङन्तस्य प्रधानत्वेन सापेक्षत्वेऽपि दोषाभावात् , उपसर्गस्य द्योतकत्वेन प्रत्येकमर्थ एव नास्तीति साकाङ्क्षताया वक्तुमशक्यत्वाचेति । वृत्तकथनपूर्वकं वर्तिष्यमाणमाह पूर्वार्ध इति । हलन्तेषु 'स्पृशोऽनुदके क्विन्' 'ऋत्विग्दधृक्स्रग्-' इत्यादिना किनादिव्युत्पादनं प्रासङ्गिकमिति भावः । तुर्यश्चतुर्थः । 'चतुरश्छयतावाद्यक्षरलोपश्च' इत्युक्तत्वात् ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 714