Book Title: Kashyashilpam
Author(s): Vinayak Ganesh Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 240
________________ काश्यपशिल्पे त्रिषष्टितमः पटलः । मुकुटस्य मध्यमाद्विम कृकाटिकास्तु मध्यमे । ककुन्मध्यत्वमध्ये तु स्फिपिण्डान्तरके तथा ॥ १५ ॥ ऊरुजश्वो(चोर्ध्वशङ्का(जङ्घा)यां पायर्योश्च द्वयन्तरे तथा। एवं स्याल्लम्बयेत्सूत्रमपरस्यात्रमेव हि ॥ १६ ॥ पार्श्वयोः कर्णवल्यन्तं ग्रीवामध्ये तथैव च । . वाह्य च मध्यमालम्ब्य गुल्फमध्ये तु लम्बयेत् ।। १७ ।। देहमध्ये गतेनैव पश्चसूत्रं प्रकल्पयेत् । श्रोत्राभ्यन्तर्गतं सूत्रं स्तनचूचुकमध्यमे ॥ १८ ॥ पादोरुमध्यदेशेऽन्त्ये मध्यमे तु मलम्बयेत् । पूर्वसूत्रं तु मौल्यग्रं निम्नं द्वादशमातृ(त्र)कम् ॥ १९ ॥ पूर्वसूत्रं मौल्यमग्रं षण्मात्रं तु प्रमुच्यते ।। पूर्वसूत्रं ललाटान्तं ह्यन्तरं द्वयङ्गुलं भवेत् ॥ २० ॥ अपरसूत्रं शिरःपृष्ठे पादोनान्वं युगाङ्गुलम् । पूर्वसूत्रं तु मन्म(न्ध)न्तं सयवं द्वयंशमिष्यते ॥ २१ ॥ कृकाटिकापरं सूत्रं यवोनं द्वयन्तरान्तरे । पूर्वसूत्रं तु हिकान्तं यन्तरं तु रसागुलम् ॥ २२ ॥ ककुदोऽपरपृष्ठे तु षोडशं तु यवान्तरम् । उरसः पूर्वसूत्रं तु चन्तरं तु द्विमात(त्र)कम् ॥ २३ ॥ ककुन्मध्यात्परं सूत्रं द्वयन्तरं त्वणुमात्रकम् ।। मध्योदरं न्यसेत्पूर्व सूत्रं वै तत्सम परे ॥ २४ ॥ वशं निम्नपरं सूत्रं पादोनाष्टाहक परम् । प्राक्सूत्रान्नाभिमध्ये तु द्वयन्तरं सार्धमातृ(त्र)कम् ॥ २५ ॥ नाभिसूत्रात्परे पृष्ठे सार्धपक्षाङ्गुलं भवेत् । प्राक्सूत्रान्मेदमूलान्तं गुणागुलमुदाहृतम् ॥ २६ ॥ तत्समं तु परे सूत्रे यन्तरं तु द्विमात्रकम् । ऊरुमध्ये तु पुरतो जटामध्यं तथैव च ।। २७ ॥ जङ्घामध्ये च नलिकामध्ये चैव पुरोगतम् । तिर्यसूत्रं तु संकल्प्य द्वधन्तरं तु प्रमीयते ॥ २८ ॥ तत्तत्स्थाने पुरे चैव तिर्यनसूत्र प्रकल्पयेत् । ऊरुमध्याङ्गसूमं तु पूर्वसूत्रं तु द्वयङ्गुलम् ॥ २९ ।।

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304