________________
काश्यपशिल्पे त्रिषष्टितमः पटलः । मुकुटस्य मध्यमाद्विम कृकाटिकास्तु मध्यमे । ककुन्मध्यत्वमध्ये तु स्फिपिण्डान्तरके तथा ॥ १५ ॥ ऊरुजश्वो(चोर्ध्वशङ्का(जङ्घा)यां पायर्योश्च द्वयन्तरे तथा। एवं स्याल्लम्बयेत्सूत्रमपरस्यात्रमेव हि ॥ १६ ॥ पार्श्वयोः कर्णवल्यन्तं ग्रीवामध्ये तथैव च । . वाह्य च मध्यमालम्ब्य गुल्फमध्ये तु लम्बयेत् ।। १७ ।। देहमध्ये गतेनैव पश्चसूत्रं प्रकल्पयेत् । श्रोत्राभ्यन्तर्गतं सूत्रं स्तनचूचुकमध्यमे ॥ १८ ॥ पादोरुमध्यदेशेऽन्त्ये मध्यमे तु मलम्बयेत् । पूर्वसूत्रं तु मौल्यग्रं निम्नं द्वादशमातृ(त्र)कम् ॥ १९ ॥ पूर्वसूत्रं मौल्यमग्रं षण्मात्रं तु प्रमुच्यते ।। पूर्वसूत्रं ललाटान्तं ह्यन्तरं द्वयङ्गुलं भवेत् ॥ २० ॥ अपरसूत्रं शिरःपृष्ठे पादोनान्वं युगाङ्गुलम् । पूर्वसूत्रं तु मन्म(न्ध)न्तं सयवं द्वयंशमिष्यते ॥ २१ ॥ कृकाटिकापरं सूत्रं यवोनं द्वयन्तरान्तरे । पूर्वसूत्रं तु हिकान्तं यन्तरं तु रसागुलम् ॥ २२ ॥ ककुदोऽपरपृष्ठे तु षोडशं तु यवान्तरम् । उरसः पूर्वसूत्रं तु चन्तरं तु द्विमात(त्र)कम् ॥ २३ ॥ ककुन्मध्यात्परं सूत्रं द्वयन्तरं त्वणुमात्रकम् ।। मध्योदरं न्यसेत्पूर्व सूत्रं वै तत्सम परे ॥ २४ ॥ वशं निम्नपरं सूत्रं पादोनाष्टाहक परम् । प्राक्सूत्रान्नाभिमध्ये तु द्वयन्तरं सार्धमातृ(त्र)कम् ॥ २५ ॥ नाभिसूत्रात्परे पृष्ठे सार्धपक्षाङ्गुलं भवेत् । प्राक्सूत्रान्मेदमूलान्तं गुणागुलमुदाहृतम् ॥ २६ ॥ तत्समं तु परे सूत्रे यन्तरं तु द्विमात्रकम् । ऊरुमध्ये तु पुरतो जटामध्यं तथैव च ।। २७ ॥ जङ्घामध्ये च नलिकामध्ये चैव पुरोगतम् । तिर्यसूत्रं तु संकल्प्य द्वधन्तरं तु प्रमीयते ॥ २८ ॥ तत्तत्स्थाने पुरे चैव तिर्यनसूत्र प्रकल्पयेत् । ऊरुमध्याङ्गसूमं तु पूर्वसूत्रं तु द्वयङ्गुलम् ॥ २९ ।।