________________
काश्यपशिल्पे त्रिषष्टितमः पटलः ।
॥ अथ त्रिषष्टितमः पटलः ।।
अथ वक्ष्ये विशेषेण चन्द्रशेखरमूर्तिना(काम्)। केवलं गौरिसहितमालिङ्गं च त्रिधा भवेत् ॥ १ ॥ केवलं गौरिसहितं सहज गौरिसंयुतम् । आलिङ्ग्य चैकहस्तेन देविदेवौ परस्परम् ।। २ ॥ कृतमालिङ्गमाख्यातमेवं त्रिविधमूह्यताम् । केवलं समपादं तु स्थानकं सहितं भवेत् ॥ ३ ॥ समभङ्ग त्रिभङ्गं स्यादभङ्गं चन्द्रशेखरम् ।। केवलं मूर्तिदं ख्यातं सहितमभयप्रदम् ॥ ४ ॥ तेष्वादौ समपादं तु स्थानकं सहितं तथा । बिम्बमानोदयं सर्व मागेव परिकीर्तितम् ॥ ५ ॥ लम्बमानोपमानं च ह्यधुना वक्ष्यते क्रमात् । प्रलम्बफलकायामं चत्वारि चाष्टमात्रकम् ॥ ६॥ अष्टादशाङ्गुलं तारं सार्धद्विद्वयङ्गुलं धनम् । चतुष्पादसमायुक्तं पादोच्चं प्रतिमोदयम् ॥ ७ ॥ रि(ऋक्षागुलसमायुक्तं स्थापयेत्समभूतले । समसुत्रं विनिश्चित्य प्रलम्बफलकोपरि ॥८॥ पूर्वेऽपरे च पार्थे च मानसूत्रं प्रलम्बयेत् । अन्तरे सुषिरं कल्प्य सूत्रान्त्यं लम्बयेत्तदा ॥ ९ ॥ तत्सूत्रं तु गुणं बिम्बं कारयेद्विजसत्तम । पूर्वे च पातयेत्पृष्ठे कायमध्ये च लम्बयेत् ॥ १० ॥ एतानि पञ्च सूत्राणि ब्रह्मसूत्रमुदाहृतम् । कक्षान्तरे मुखान्ते च द्वे द्वे सूत्रे प्रलम्बयेत् ॥ ११ ॥ एवं हि नवसूत्राढयं स्थानकं चाऽऽसनं तथा । मुकुटं मध्यमं चैव ललाटस्य तु मध्यमे ॥ १२ ॥ नासाग्रमध्यमं चैव हनोर्मध्यं तथैव च । हिक्कामध्यं च हृदयं मध्ये नाभिश्च मध्यमे ॥ १३ ॥ लिङ्गमध्ये च मध्ये तु पादयोश्च तलान्तरे । लम्बयेत्पूर्वसूत्रं स्यादपरस्तमयोच्यते ॥ १४ ॥