________________
काश्यपशिल्पे द्विषष्टितमः पटलः । श्रोणिस्थाने तु भान्वंशं कटिस्थाने त्रयोदश । ऊरुमूलविशालं तु वस्वङ्गुलमुदाहृतम् ॥ २५ ॥ षडगुलं जानुविस्तार(वृत्त) जवामूलं युगाङ्गुलम् । गुणांशं नलकं तारं षडंशं तलविस्तृतम् ॥ २६ ॥ पार्णिव्यासं युगांशं वा शेष युक्त्या तु कल्पयेत् । केशान्ते नासिकोपेतं करण्डमुकुटान्वितम् ॥ २७ ॥ उभयोर्हस्तयोः पुष्पं वामो वरद एव वा । कटकं वाऽथ तद्धस्तं सिंहकण्ठमथापि वा ॥ २८ ॥ दक्षिणे पुष्पहस्तं वा कपिण्डमुभयं तु वा । कटिसूत्रधृतं ननं छन्नवीरसमन्वितम् ॥ २९ ॥ मृदुकचं उपग्रीवं बालभूषणभूषितम् । आसीनं वा स्थितं वाऽथ नृतं वा स्कन्दमाचरेत् ॥ ३० ॥ आसीनौ चरणौ द्वौ द्वौ विष्टरोपरि शाययेत् । स्थितौ पादतलौ द्वौ तु स्थलभङ्गमिति स्थितौ ॥ ३१ ॥ चरणौ कुञ्चितोभौ तु युक्त्या जानु(न्वो)श्च नीत्रकम् । द्विपादौ कुञ्चितौ किंचित् किंचद्गमन एव वा ॥ नृत्तं चेत्स्वस्तिकः सव्यपादं वक्रसमन्वितम् । .. उद्धृत्य वामपादं तु पीठोत्सेधं कलावधि ॥ ३३ ॥ षण्मात्रपञ्चमात्रान्तं पादमुद्धारतो द्विज । फलेनावरदं वामं हस्तमन्यं तु सूचितम् ।। ३४ ॥ अथवा वामहस्तं तु फलं न्यस्त्वा(स्य)प्रसाधयेत् । हिक्कासूत्रे समे धृत्वा कर्णवन्धोर्ध्वसीमकम् ॥ ३५॥ द्वयन्तरं लम्बसूत्रं तु नृत्तमूर्तिवदाचरेत् । उमास्कन्दयुतं प्रोक्तं शृणु चन्द्रधरादिकृत् ।। ३६ ॥
इति काश्यपशिल्पे द्विषष्टितमः पटलः ।