________________
काश्यपशिल्प द्विषष्टितमः पटलः । . . २०७ स्थानकानां तु देवेश देवि चास्थानकं भवेत् । आसने त्वासनं ख्यातं विपरीतं विपत्करम् ॥ ११ ॥ देवीलक्षणमेवं वा स्कन्दलक्षणमुच्यते । देवीदेवेशयोर्मध्ये स्थापयेत्स्कन्दमूर्तिकाम् ॥ १२ ॥ देव्या हिक्कावसानं तु स्कन्दमानं तदुत्तरम् । ... स्तनाक्षान्तं कनिष्ठं स्यात्तयोर्मध्येऽष्टभाजिते ॥ १३ ॥ नवधा स्कन्दमानं तु उक्तमानं त्रयं त्रयम् ॥ जात्या व्यासयुतं वाऽपि हीनं वाऽपि प्रकल्पयेत् ॥ १४ ॥ सवेदरसधर्माशं तन्मानं तु विभाजिते । एकांशमङ्गुलं ख्यातं तदष्टांशं यवं भवेत् ॥ १५ ॥ एकागुलं शिरोमानं केशान्तं चैव तत्समम् । त्रिभागं नेत्रसूत्रान्तं पुटान्तं चैव तत्समम् ॥ १६ ॥ गुणांशं हनुसीमान्तं ग्रीवोच्चं तु द्वयागुलम् । हिक्कासूत्रस्तता(ना)न्तं तु नवभागमुदाहृतम् ॥ १७ ॥ तस्मानिन्मि(नाभ्य)वसानं तु वस्वङ्गुलमुदाहृतम् । नाभेस्तु मेमूलान्तं सप्तमात्रमिति स्मृतम् ॥ १८ ॥ भान्वंशमूरुदीर्घ स्याज्जानु व्यङ्गुलकं भवेत् । जङ्घा चोरुसमं तुल्यं द्वथंशं पादतलोनतम् ॥ १९ ॥ दशांशांघ्रीतलायाम बाहुदीर्घ चतुर्दश । प्रकोष्ठायाम दशांशं तलं वेदाङ्गुलं भवेत् ॥ २० ॥ युगांशं मध्यमागुल्यं सार्धाग्न्यंशमनामिका । तत्सम तर्जनीदीर्घ कनिष्ठायां गुणागुलम् ॥ २१॥ अङ्गुष्ठायाममग्न्यंशं युगांशं तलविस्तृतम् । प्रकोष्ठाग्रं गुणांशं तु तन्मूलं चतुरङ्गुलम् ॥ २२ ॥ भूतांशं बाहुमूलं स्याद्विस्तारं द्विजसत्तम । सार्धाष्टांशं मुखव्यासं सप्तांशं कर्णविस्तृतम् ।। २३ ।। कक्षयोरन्तरव्यासं त्रयोदशाङ्गुलं भवेत् । पञ्चाशं हृदयविस्तारं रुद्रांशं मध्यविस्तृतम् ॥ २४ ॥