________________
२०६
काश्यपशिल्प द्विषष्टितमः पटलः ।
उपग्रीवं समाख्यातं नानापुष्पविराजितम् । सर्वाङ्गसुन्दरं देवं शेषं युक्त्या समाचरेत् ॥ ५८ ॥ एवं सुखासनं प्रोक्तमुमास्कन्दयुतं तथा ।। ५९ ॥ इति काश्यपशिल्पे सुखासनं नामैकषष्टितमः पटलः ।
॥ अथ द्विषष्टितमः पटलः ।
अथ वक्ष्ये विशेषेण सोमकन्देश्वरं द्विज । सुखासनं यथा प्रोक्तं तथेदं च विधीयते ॥ १ ॥ देवस्य वामपार्श्वे तु पार्वतीं च सुखासनाम् । चय ( रच) दक्षिणे पादे वामपादं मलम्बयेत् ॥ २ ॥ आसनस्योपरिष्टात्तु स्विष्टीनां चतुरङ्गुलम् । ऊर्ध्वकायसमायुक्तं मानसोपार कल्पयेत् ॥ ३ ॥ किंचिद्देव्याश्रितं वक्त्रं लक्षणं भागसंयुतम् । वरदं वामहस्ते तु उत्पलं दक्षिणे करे ॥ ४ ॥ किंचिद्वौ यथापूर्वी वामहस्तौ तथोर्ध्वके । वरदं चामिति(भयं) ख्यातं पृथक्सिहस्य कर्णवत् ॥ ५ ॥ वामां के स्थापयेदेवीं सर्वाभरणभूषिताम् ।
रक्ताम्बरधरां देवीं छन्नवीरसमन्विताम् ॥ ६ ॥ अथवाsन्यप्रकारेण देवीभङ्गं वदामि दम् (ते) । 'वामोरु (रौ) बाह्यपीठे तु वामहस्ततलं न्यसेत् ॥ ७ ॥ पश्चादुत्पलसंयुक्तं दक्षिणं हस्तमुच्यते । पीठं तु दक्षिणे जानुं किंचिदुच्छ्रितसंयुतम् ॥ ८ ॥ त्रिचतुष्पञ्चमात्रं वा पीठजान्वन्तरं भवेत् । षट्सप्ताष्टाङ्गुलं वाऽथ पीठं जान्वन्तरं भवेत् ॥ ९ ॥ एवं द्विविधमित्याहु देवेभिङ्ग विधीयते ।
श्रीमान्नेनु (मता चोक्तमार्गेण देवीमानं तु गृह्यताम् ॥ १० ॥