________________
काश्यपशिल्प एकषष्टितमः पटलः । । नानालंकारसंयुक्तं नानारत्नैर्विचित्रितम् । नाभेरूचे गुणांशं तु नीत्वा वा दारु वर्धयेत् ।। ४४ ॥ पादयोर्मध्यमादन्याः स्वगुल्यो वलयान्विताः। का(जा)लयवद्वयघनं स्वगुलानां तु मध्यगम् ॥ ४५ ॥ पादौ जालकयुक्तौ हिगुल्फजस्थौ द्विजोत्तम । जालकावन्धसूत्रं तु यवद्वयघनान्वितम् ।। ४६॥ तत्सूत्रजालनालं स्याधिपञ्चयवमानकम् । त्रियवं जालकानालं शेषं वै जालकोदयम् ॥ ४७ ॥ तदुबतसमं व्यासं यवमानं च तत्समम् । शेषं हीनं घनं गाढं यस्य यच्च यथोचितम् ॥ ४८ ॥ गाढावृतं तु युक्तं स्यादन्तःपाषाणसंयुतम् । घनं पाषाणहीनं तु गाढनीनं तदोच्यते ॥ ४९ ॥ परशोर्हरिणीदीर्घ भान्वङ्गुलमुदाहृतम् । परशुं हरिणीं चैव युक्त्या वा द्वयमाचरेत् ॥ ५० ॥ यज्ञोपवीतसंयुक्तं यवाष्टांशं घनं भवेत् । उपवीतद्विसूत्रं स्यादुपवीतसमं धनम् ॥ ५१ ॥ वासः स्कन्धोपरि न्यस्य नाभ्यधस्ताङ्गुलं भवेत् । यज्ञोपवीतसूत्रं स्यानाभेर्दक्षिणपार्श्वके ॥ ५२ ॥ अपरे वाममाश्रित्य यज्ञसूत्रं निधापयेत् । ऊरुसूत्रं समालम्ब्य स्तनादष्टाङ्गुलोत्तरम् ॥ ५३ ॥ यज्ञोपवीतमेवं स्याच्छन्नवीरमथ शृणु।। यज्ञोपवीतं स्याद्विम स्कन्द(न्ध)योरुभयोरपि ॥ ५४॥ पाश्वयोश्चैव श्रोण्यर्धे न्यस्य स्थानान्तरैकवत् । [ग्रीवा हारं विजानीयाद्धिक्काधस्तात्षडङ्गुलम् ॥ ५५ ॥ लम्ब्ये वेदाङ्गुलं तारं यवत्रयघनान्वितम् । नानारत्नैर्हिरण्यैश्च हारं कृत्वा तु सुन्दरम् ॥ ५६ ॥ हिकासूत्रोपरिष्टात्तु उपग्रीवं च बन्धयेत् । रुद्राक्षं वाऽथ रत्नं वा हेमसूत्रमथापि वा ॥ ५७ ॥