________________
२०४
काश्यपशिल्प एकषष्टितमः पटलः । मुखान्तसदृशं विप्र मुकुटमूलविशालकम् ।। तत्सप्ताष्टनवांशेन हीनमाविशालकम् ।। २९ ॥ चतुष्पूरिमसंयुक्तं भान्वंशं पूरिमोदयम् । सव्ये नागार्कपुष्पैश्च वामे त्वर्धशशिं न्यसेत् ॥ ३०॥ दक्षिणोत्थं शिवार्ध वा वामे नागार्कपुष्पधृत् । कटिसूत्रत्रिसंख्यादि सूत्रं प्रति यवं स्वनम् ॥ ३१ ॥ कटिसार्धापरिष्टात्तु कटिसूत्रं तु बन्धयेत् । . पञ्चषट्सप्तमात्र वा कीर्तिमाननविस्तृतम् ॥ ३२॥ तद्विस्तारसमोत्तुड़े मेढो परिकल्पयेत् । कटिसूत्रादूरुदाममूरुत्रयावसानकम् ॥ ३३ ॥ मुक्तादामोरुदाम स्यादन्तरे रत्नसंयुतम् । कटिसूत्रं समाख्यातं कटकं वलयान्वितम् ।। ३४ ॥ कटकं वलयोपेतं प्रकोष्ठं द्विजसत्तम । कनिष्ठागुलिपरीणाहं वलयं मार्दवं हितम् ॥ ३५ ॥ अथवा वलयस्यैव घनं द्वित्रियवं तु वा । पराजितं तु वलयं युग्मं प्रके(कोष्ठे) निधापयेत् ॥ ३६ ॥ मार्दवं रत्नबन्धं वा कृत्वा तु वलये द्विज । केयूरं कृपरे न्यस्य मुकुटं च घनान्वितम् ॥ ३७ ।। एकाकारं तु केयूरं वाऽष्टपत्राब्जसंयुतम् । नानारत्नसमायुक्तं शैलवाहमथापि वा ॥ ३८ ॥ पत्रपूरिमसंयुक्तं बाहुमध्ये द्विजोत्तम । पत्रपूरिमनालं तु केयूरसदृशं धनम् ॥ ३९ ॥ तत्पूरिमादधोनालं बाहुद्वित्रिपरं तु वा । त्रिचतुष्पञ्चमात्रं वा पत्रपूरिमविस्तृतम् ॥ ४० ॥ तद्वयासार्ध[मात्र]तुङ्ग पादोनं द्विगुणं तु वा । द्विगुणं वाऽपि तुङ्गं तु तबाहुवलयं भवेत् ॥ ४१ ॥ मध्यागुल्या विना शेषाः स्वाङ्गुलीमुद्रिकान्विताः । मुद्रिकामूलपर्वस्था वृत्ताया धसनान्वितम् ॥ ४२ ॥ उदरं स(ब)न्धं विशालं चैकद्वित्रियुगं तु वा । यवं वा द्वियवं वाऽथ उदरं बन्धनं भवेत् ।। ४३॥