________________
काश्यपशिल्प एकषष्टितमः पटलः ।
कर्तव्याऽऽकृतिरेवं स्याल्लक्षणाञ्चितसुन्दरम् । कूर्परं श्रोणिपार्श्वे तु पञ्चषट्सप्तमाकृतिम् ॥ १४ ॥ कुक्षिमध्ये च नासाग्रे पूर्वसूत्रं तु संस्पृशेत् । मेमूलं तु वामाङ्घ्रि गुल्फमध्यं रसाङ्गुलम् ॥ १५ ॥ अथवा सप्तमात्रं तु पञ्चमात्रमथापि वा । नाभिमध्यं तु नामाङ्घ्रिनलिकाग्रं चतुर्दश ।। १६ ॥ त्रयोदशाङ्गुलं वाऽथ भान्वङ्गुलमथापि वा । मौल्यग्रमध्यमात्सूत्रं द्व्यन्तरं मनुमातृ ( त्र ) कम् ॥ १७ ॥ सार्धत्रयोदशं वा [x]योदशाङ्गुलमेव वा । ऋजो (जु) गतं सुखासीनं प्रवालसदृशप्रभम् ॥ १८ ॥ त्रिनेत्रं सुवदनं संपन्नं राजसं गुणम् । व्याघ्राजिनाम्बरोपेतं दुकूलवसनान्वितम् ॥ १९ ॥ कर्तरीपरहस्तौ द्वौ बाह्ये वाऽभ्यन्तरासनम् । दक्षिणे परशुं वामे कृष्णं चान्यवरद्वयम् ॥ २० ॥ अभयं दक्षिणं वामं कटकं सिंहकर्णवत् । वामे कर्णविशेषेण शङ्कपात्रमधापयेत् ॥ २१ ॥ त्रिचतुष्पञ्चमात्रं वा पञ्चमण्डलविस्तृतम् । कर्णनालघनं चैव त्रिगुणं पत्रविस्तृतम् || २२ ॥ य(ए) वं पत्रघनं प्रोक्तं श्वेतभान्वादिमार्दवम् | दक्षिणे कर्णमेव तु कुण्डलं सिंह एव वा ॥ २३ ॥
कुण्डलं व्यासतुङ्गं तु त्रिचतुष्पञ्चमात्रकम् । युक्त्या तत्कुण्डलं कृत्वा कर्णस्कन्धोपरि न्यसेत् ॥ २४ ॥ अथवा कर्णयोर्विप्र वृत्तकुण्डलकं न्यसेत् । वृत्तकुण्डलविस्तारमष्टादशयवं भवेत् ॥ २५ ॥ वेदाङ्गुलं तु तत्तुः कुम्भाब्जं मुकुलोदयम् । क ( अ )न्यद्वा सुन्दरोपेतं कल्पयेत्तकुण्डलम् ॥ २६ ॥ जटामुकुटसंयुक्तं युग्मसंख्याजटान्वितम् । मुकुटस्योदयं विम चतुर्विंशाङ्गुलं भवेत् ॥ २७ ॥ त्रिसप्ताङ्गुलतु वा द्विर्नवाङ्गुलमेव वा । केशांश्च मुकुटं चंतु ( चापि ) ललाटे पट्टसंयुतम् ॥ २८ ॥
२.०३.