________________
२०२
काश्यपशिल्प एकषष्टितमः पटलः ।
॥ अथैकषष्टितमः पटलः ॥
अथ वक्ष्ये विशेषेण सुखासनविधि परम् । आसनं राजसं भावं भद्रपीठं [सुखासनम् ॥१॥ वामाघ्रिश्छादयेत्पीठे दक्षिणाधिस्तु लम्बयेत् । ऊर्श्वभागोपरिष्टात्तु सार्धवेदाङ्गुलाधिकम् ।। २॥ स्फिपिण्डमानमेतद्धि आसीनोधै विशेषतः । आसने पूर्वकेशान्तं जान्वोर्बाह्यावसानकम् ॥ ३ ॥ जानू_ पूर्वकेशान्तं जानोर्या(नुबा)हुग्रीवास्यकम् । परहस्तमणिबन्धं मध्यमं च समं भवेत् ॥ ४॥ आसीनेन स्वसूत्रेऽस्ति पूर्वसूत्रेऽधुना शृणु । मौलिमध्यं तु नासाग्रात्स्तनाभं नाभिमध्यमम् ॥ ५ ॥ वामाज्रिगुल्फमध्ये तु ब्रह्मसूत्रं प्रलम्बयेत् । सूत्रादक्षिणजान्वन्तमेकत्रिशाङ्गुलं भवेत् ॥ ६ ॥ अथवा त्रिंशदगुल्य एकोनत्रिंशतोऽपि वा । सूत्रात्तदध्रिनलकाद्वाऽन्तरं द्वादशाङ्गुलम् ॥ ७॥ त्रयोदशाङ्गुलं वाऽथ दशाङ्गुलमथापि वा। पीठं नादं प्रपाष्र्योस्तु नीनं द्विव्यङ्गुलं तु वा ॥ ८ ॥ तत्सूत्रान्मथये(ध्यमे)हस्ते मध्यरेखावसानकम् । चतुर्दशाङ्गुलं प्रोक्तमन्तरं तु द्विजोत्तम ॥ ऊरो₹ मणिवन्धान्तं नीत्रं द्वित्र्यङ्गुलं तु वा ॥ ९ ॥ कटकं सिंहकर्ण वा तत्रस्थं प्रविधीयते । तर्जन्यादिकनिष्ठान्तं तत्राङ्गुल्यस्तु वक्रगाः ॥ १० ॥ ईषदकं तदङ्गुष्ठमेवं स्यात्कटकाकृति । मध्यामध्यतलान्तं तु अर्धमधे त्वनामिका ॥११॥ वक्रं शेषाङ्गुलं प्राग्वत्सिहकर्णमिदं परम् । हिक्कासूत्रं समं कुर्यात्कर्तव्याग्रौ करे परे ।। १२ ॥ वक्रावनामिकाङ्गुष्ठौ तलमध्यावसानको । किंचिद्वका कनिष्ठाऽपि शेषौ द्वौ तु ऋजुक्रियौ ॥ १३ ॥