________________
काश्यपशिल्पे षष्टितमः पटलः ।
२०१
॥ अथ षष्टितमः पटलः ॥
अथ शैवादनन्तरं [स्याद् ] विष्णुस्थापने विधिः । नगरे पश्चिमे वाऽपि मध्ये वा उत्तमोत्तमम् ॥ १ ॥ मध्यादिकलिकान्तं वा अवतारं तु शिञ्जितम् ।। तत्पदे वास्तुदेवांश्च स्थापयेच्छिल्पिकोत्तमः॥२॥ खगं तु विष्णुपुरतो विष्णुकुञ्जमथापि वा। अञ्जलिं हस्तसंयुक्तं पूर्वे वा अग्रतस्तथा ॥३॥ आलयेऽर[ण्यके वाऽपि तटाके पुण्यतीर्थके । ग्रामे वा वास्तुमध्ये वा भवेत्पूर्व उदङ्मुखे ॥ ४ ॥ वरुणे वैश्यभूमि च यममिन्द्रं तु स्थापयेत् । पिशाना(चा)नौ पदे स्थाप्य नैर्ऋतिं वायुमर्चयेत् ॥ ५॥ अथ वक्ष्ये विशेषेण सकलस्थानमुत्तमम् ।। शांकरे नृत्तमूर्तिस्तु आग्नेय्यां वृषवाहनम् ॥ ६ ॥ उमास्कन्दा युतं विप्र नैर्ऋत्यां परिकल्पयेत् । कङ्कालं वायुदिग्भागे भिक्षाटनं जयान्तिके ॥ ७॥ सुखासनं तु सत्यांशे विध्यंशे त्रिपुरान्तकम् । सुग्रीवे हरिरर्ध स्याद्गन्धर्षे चन्द्रशेखरम् ।। ८॥ शेषांशं........ मुख्ये कालारिमूर्तिकम् । (१) उदिते त्वधनारी स्यादैन्द्र कल्याणसंयुतम् ॥९॥ क्षेत्रपालस्तु पर्जन्ये याम्ये वा दक्षिणेश्वरम् । वारुण्ये लिङ्ग-मुद्भूतं सौम्ये तु गजहारिणम् ॥ १० ॥ इत्यूप्रमालयं प्रोक्तमन्तरालस्य कल्पयेत् । मूलमध्ये तु संवीक्ष्य सकलं स्थापनं कुरु ॥ ११ ॥ प्राकारेऽष्टचतुर्दिक्षु द्वारशोभादि कल्पयेत् । प्राकारान्ताति(नि) मध्ये च दीर्घमध्ये च वेशनम् ॥ १२ ॥ अथवा हर्म्यस्य मध्येन द्वयेकमंशकम् ।(?)
प्रधानमारमेकं वा त्वग्ने वाचालकं द्विज ॥ १३ ॥ इति काश्यपशिल्पे सकलस्थापनविधिर्नाम षष्टितमः पटलः ।