________________
काश्यपशिल्प एकोनषष्टितमः पटलः । लक्षणोद्धरणार्थीशं दशभागविभाजिते । एकाशं मुकुलोचं तु नवांशं नालदीर्घकम् ॥ ६२ ॥ शेषं पूर्ववदुद्दिष्टं चतुर्थ लक्षणं शृणु । लक्षणांशं तु नवधा भाज्यैकांशं तु कुण्डकम् ॥ ६३ ॥ सप्तांशं नालदीर्घ तु शेषं पूर्ववदेव हि । चतुर्थ लक्षणं भोक्तं पञ्चमं लक्षणं शणु ॥ ६४॥ लक्षांशं वसुधा भज्य व्योमांशं मुकलोदयम् । षडंशं नालदीर्घ तु नालाधस्ताच्छिवांशकम् ।। ६५ ॥ तदेव सप्तभागं तु नालदीर्घमुदाहृतम् । शेष प्रागिव कर्तव्यं सप्तमं लक्षणं शृणु ॥६६ ॥ लक्षा(शे तु सप्तांशे शश्यंशं मुकुलोदयम् । भूतांशं नालदीर्घ तु शेषं पूर्ववदेव हि ॥ ६७ ॥ षडशे वाऽथ तन्नालदीर्घ शेपं तु प्रागिव । एवमष्टविध ख्यातं नालायामं द्विजोत्तम ।। ६८ ॥ अग्राकारेऽब्जमुकुलाभानुसंख्या तु सुव्रत । यथेष्टनालं कर्तव्यं चसुसंख्या तु देशिकः ॥ ६९ ।। दृढसूत्रं प्रकर्तव्यं लिङ्गेधूक्तप्रमाणतः । स्थापयेत्तु ततो लिङ्ग प्रागग्रं दारुविष्टरे ॥ ७० ॥ लक्षयेत्पिण्डिकावक्त्रं लिङ्गं सौम्ये निधापयेत् । स्थापितः कलशैः स्थाप्य लिङ्गपीठे हृदा बुधः ॥ ७१ ।। गन्धोदकैः [स्तु सं]स्नाध्य गन्धपुष्पादिभिर्यजेत् । लम्बकूर्चसमायुक्तं सर्वालंकारसंयुतम् ।। ७२ ।। र(थे वा शि)विकायां वा ग्रामं कृत्वा प्रदक्षिणम् । ततो जलाशयं प्राप्य जलाधिवासनं कुरु ।। ७३ ।।
लक्षणोद्धारमाख्यातं प्रतिमालक्षणं शृणु ॥ ७४ ॥ इति काश्यपशिल्पे पीठलक्षणोद्धारो नामैकोनषष्टितमः पटलः ।